________________
सप्तभङ्गीप्रभा तु पर्वते, घटे स्वकाले कालत्वसामानाधिकरण्यं न तु कालान्तरे इति विविक्तप्रतीत्यनुरोधेन विलक्षणावच्छेदकत्वस्य स्वद्रव्यक्षेत्रकालेष्वनुभवसिद्धस्याऽपलपितुमशक्यत्वात् । यथा च धर्मविधया घटत्वावच्छिन्नस्याऽपि वृत्तित्वस्य स्वाभावसामानाधिकरण्यनिर्वाहकविलक्षणघटत्वनिष्ठावच्छेदकत्वस्याऽनभ्युपगमे घटस्य सर्वात्मकत्वप्रसङ्गस्तथा स्वद्रव्यवृत्तितायां स्वद्रव्यस्याऽनवच्छेदकत्वे, स्वक्षेत्रवृत्तितायां स्वक्षेत्रस्याऽनवच्छेदकत्वे, स्वकालवृत्तितायां स्वकालस्याऽनवच्छेदकत्वे च सकलद्रव्यवृत्तित्व-सकलक्षेत्रवृत्तित्वसकलकालवृत्तित्वानां प्रसक्त्या सर्वात्मकत्वव्यापकत्वनित्यत्वानां प्रसक्तिः स्यात् । यतः स्वद्रव्यवृत्तित्वं यदि स्वद्रव्यावच्छेद्यत्वनियतं न स्यात् तदा प्रमेयसामान्याद्यवच्छेद्यत्वं तस्य को वारयेत् ? तत्त्वे च यथा वाच्यत्वादौ प्रमेयसामान्यावच्छेद्या प्रमेयनिरूपितवृत्तिता यावत्प्रमेयनिरूपिता भवति तथा स्वद्रव्यनिरूपितवृत्तिताऽपि स्यात् । स्वद्रव्यनिरूपितवृत्तितायां च यावत्प्रमेयनिरूपितत्वं तदैवोपपद्येत यदि यावत्प्रमेयस्यैव स्वद्रव्यत्वं स्यात्, तथा च घटपटादीनां स्वद्रव्याभेदादभेदप्रसङ्गरूपसर्वात्मकत्वप्रसङ्गोऽत्राऽप्यविशिष्टः ।
एतद्रीत्यैव स्वक्षेत्रवृत्तित्वस्वकालवृत्तित्वयोः स्वक्षेत्रावच्छेद्यत्व-स्वकालावच्छेद्यत्वानभ्युपगमे व्यापकत्वनित्यत्वयोः प्रसङ्गो वोध्यः । वृत्तित्वस्य निरूपकं स्वद्रव्यादि परस्याऽप्यनुमतमतो न निरूपकत्वेन स्वद्रव्यादि संशयादिविषयः, किन्त्ववच्छेदकत्वेनैव । तथा च स्वद्रव्यादीनां मध्याद् यदा यस्य संशयादिविषयता तदानीं तस्याऽवच्छेदकतया समर्पणप्रत्यलेन स्यात्पदेन घटिता सप्तभड़ी परिपूर्णधर्मप्रतिपादिकैव ।
एवं स्वद्रव्याद्यवच्छेदकभेदमवलम्व्य प्रवृत्तानां च तासां न पस्परसङ्कीर्णार्थतेत्यतो “यदि चाऽवच्छेदकाद्यप्रतीतौ स्वरूपतो वृत्तित्वविशेषस्य प्रतीतावपी” त्याद्यनभ्युपगमपराहतमवसेयम् । यदपि “न च सप्तभङ्गयाः प्राश्निकप्रश्नज्ञानप्रयोज्यतायाः स्वीकारेणे”त्यादिना स्याद्वाद्याकूतमाशक्य ‘स्यात्पदं हि प्रकृते कथञ्चिदित्यर्थकमेवे'त्यादिना प्रतिविहितं, तदनुमोदामहे । यत्पुनस्तत्रोक्तं ३“न चोक्तावच्छेद्यत्वं प्रतिपादयितुं शक्यं, द्रव्यस्य वृत्तित्वरूपास्तित्वस्याऽधिकरणविधया निरूपकत्वस्यैव भावादि"ति, तदुक्तयुक्त्याऽधिकरणेऽवच्छेदकत्वव्यवस्थापनेन प्रतिक्षिप्तमेव ।
यच्च “किश्च प्राश्निकप्रश्नज्ञानप्रयोज्यत्वपक्षे घटत्वेनेत्यादिपदघटितैव सप्तभङ्गी मुख्यतः प्रयोक्तुमुचिता, निराकाङ्क्षपरिपूर्णवोधे साक्षादुपयोगित्वादि''ति, तत्र वूमः, यथा हि देवदत्त आगच्छति तं पश्येत्यादौ सामान्यतो बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने शक्तात् पदात् स्वरूपतो देवदत्तत्वाद्यवच्छिन्नस्याऽववोधो, न तु घटत्वाद्यवच्छिन्नस्य, तदानीं तस्य वक्तृवुद्धिस्थत्वाभावात्, तथा स्यात्पदादपि वुद्धिविशेषविषयनिष्ठावच्छेदकतानिरूपितावच्छेद्यताववोधकात् कुशाग्रबुद्धिं जिज्ञासुं प्रति वुद्धिविशेषविषयघटत्वादिनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावद्वृत्तित्वाववोधनसम्भवान्नाऽऽवश्यकता घटत्वेनेत्याधुक्तेः, लघूपायेन वुवोधयिषितार्थाववोधसम्भवे गुरूपाये प्रेक्षापूर्वकारिणोऽववोधकस्याऽप्रवृत्तेः । एवं यस्मिन् धर्मे यस्य
१. पृ. १० पं. ७ । २. पृ. १० पं. १३ । ३. पृ. ११ पं. ५ । ४. पृ. ११ पं. ८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org