________________
४०
सप्तभङ्गीप्रभा वच्छेदकसम्बन्धभेदाच्च परस्परं भिन्नत्वेऽपी”त्यादि, तदप्यवोधविलसितम् । स्यादस्त्येवेत्यत्र स्यात्पदेन यद् घटत्वावच्छेद्यत्वं वोध्यते, तद्धर्मविधया यद् घटत्वावच्छेद्यत्वं ततोऽन्यदेवाऽव्याप्यवृत्तित्वसम्पादकमित्यस्योपपादितत्वेन तथाविधघटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यताववृत्तित्वापेक्षया स्वद्रव्यादिनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावद्वृत्तित्वादेर्भिन्नत्वेन न कथमपि घटत्वावच्छिन्नवृत्तित्वप्रतिपादकभङ्गघटितसप्तभङ्ग्याः स्वद्रव्याद्यवच्छेद्यवृत्तित्वप्रतिपादकभङ्गघटितसप्तभङ्गीतो गतार्थता । एतेन “न च, यदेव घटे वृत्तित्वं घटत्वावच्छिन्नं तदेव भूतलादिनिरूपितमपि, परन्त्वेकस्यां सप्तभङ्ग्यां घटत्वावच्छिन्नत्वेन प्रतीयते" इत्यादिप्रश्नप्रतिविधानवचनसङ्ग्रथनमरण्यरुदितमेवाऽवसेयम्, स्वद्रव्यादीनामप्यवच्छेदकतामवलम्व्यैव सप्तभङ्गया उपपादनात् ।
वृत्तित्वं सावच्छिन्नं सनिरूपकं चेत्येकान्तवादिनामप्यनुमतमेव । तस्य तथाभूतस्य प्रतीत्युपपादनप्रकारः सर्वैरपि वादिभिः समानतयैवाऽऽश्रयितव्यः । न तत्राऽस्ति स्याद्वादस्य निर्भरः, केवलं तत् तथाभूतमपि न स्वाभावाधिकरणेऽवच्छेदकविशेषपुरस्कारमन्तरेणाऽवस्थातुमर्हतीति तादृशावच्छेदकाववोधनपरः स्याद्वादो न विकल्पसहस्रेणाऽप्यपहस्तयितुं शक्यः ।
यत्तु “तादृशस्य वृत्तित्वस्य सर्वप्रकारावच्छिन्नत्वस्य वस्तुतोऽभावादेव न तथा प्रतीतावपि घटस्य सर्वात्मकत्वप्रसङ्ग इति, तदापादनस्वरूपानवबोधविजृम्भितम् । तथा हि - स्यादित्यनुक्तौ घटोऽस्तीत्युक्तावपि विधेये वृत्तित्वे उद्देश्यतावच्छेदकघटत्वावच्छेद्यत्वस्य सामान्यतः सिद्धत्वेऽपि सावच्छिन्नस्य वृत्तित्वस्य घटत्वावच्छिन्नत्वं स्वरूपप्रविष्टमेव । तद्वहिर्भूततया घटत्वमेव यद्यनुयोगितावच्छेदकतया तस्य नाऽऽश्रीयते तदा प्रमेयत्वमप्यनुयोगितावच्छेदकीकृत्य घटत्वावच्छिन्नवृत्तिताया वृत्तिः स्यात् । तथा च यथा प्रमेयत्वमनुयोगितावच्छेदकीकृत्य वर्तमाना प्रमेयत्वावच्छिन्नवृत्तिता निखिलप्रमेयवर्तिनी तथा घटत्वावच्छिन्नवृत्तिताऽपि स्यात् । एतच्च तदोपपद्यते यदि घटात्मकमेव जगत् स्यात्, अन्यथा घटत्वावच्छिन्नवृत्तिताया घटमात्रवर्तिन्या निखिलप्रमेयवृत्तित्वानुपपत्तेः ।।
न च, घटत्वमतिपत्याऽपि घटत्वावच्छिन्नवृत्तिता वर्ततां नाम, तावतैव नाऽशेषस्य जगतो घटात्मकत्वप्रसङ्ग इति वाच्यम् ।
घटत्वस्य न्यूववृत्तित्वेन प्रमेयत्वावच्छिन्नवृत्तिताया इव प्रकृतवृत्तिताया अप्यवच्छेदकत्वं तथा सति न स्यात् । अत उक्तप्रसङ्गपरिहारायोक्तविलक्षणावच्छेदकत्वप्रतिपत्तये स्यादिति प्रयोक्तव्यमेवेति ।
ननूक्तदोषपरीहाराय घटत्वस्याऽवच्छेदकत्वं विलक्षणं भवतु नाम, स्वद्रव्यादीनां तु वृत्तितानिरूपकत्वमात्रमेवाऽस्त्विति चेत्;
न, घटे कपाले कपालत्वसामानाधिकरण्यं न तु तन्तौ, घटे भूतले भूतलत्वसामानाधिकरण्यं न १. पृ. ९ पं. २७ । २. पृ. १० पं. ५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org