________________
सप्तभङ्गीप्रभा
तथाऽपि ते धर्मा एकान्ततयैव तत्तत्तन्त्रप्रतिपाद्याः, न च तथाभूतास्ते प्रमाणवीथीमवलम्बन्ते, किन्त्वनेकान्तपद्धतिमानीता एवेति तथा तेषां प्रतिपादयित्री सप्तभङ्गी प्रमाणचूलामवलम्बमाना न नामोत्त्रासयितुं शक्या । तथा हि – एकान्तवादिभिस्ते ते धर्मा एकान्ततयाऽभ्युपगताः, अनेकान्तवादिभिः पुनरनेकान्ततयेत्यनेकान्तवादित्वमप्रतिहतमेव । तत्र स्यादस्त्येव घट इति प्रथमभङ्गप्रतिपाद्यमस्तित्वमधिकृत्य यदुक्तं “न तावद् वृत्तित्वं, तथा सत्येकान्तवादिभिरपि वृत्तित्वादीनां सावच्छिन्नत्वस्योरीकारेण ततोऽविशेषप्रसङ्ग” इति, तत् स्याद्वादानवबोधविजृम्भितम् । यतोऽस्तित्वं स्वाभावसमानाधिकरणं स्वसमानाधिकरणात्यन्ताभावप्रतियोगिधर्मत्वात् कपिसंयोगवदित्यनुमानेनाऽस्तित्वेऽव्याप्यवृत्तित्वसिद्धौ तदन्यथानुपपत्त्याऽभ्युपगम्यमानस्याऽवच्छेदकत्वविशेषस्य घटत्वादौ स्वीकारः । तथा च घटत्वादौ धर्मेऽवच्छेदकता द्विविधा-एका वृत्तित्वादीनां सखण्डत्वेन सावच्छिन्नस्वरूपतया तन्निरूपिता तत्स्वरूपान्तर्निर्विष्टावच्छेदकता या नैयायिकादिभिरप्यभ्युपगम्यते । न च तामुपादाय स्याद्वादप्रवृत्तिः, येनैकान्तवादतोऽविशेषप्रसङ्गः स्यात् । द्वितीयाऽस्तित्वादीनामव्याप्यवृत्तित्वोपोद्वलिका, तामुपादायैव स्यात्पदप्रवृत्तिरुपेयते । न च सा परैरुपेयते, तथा सत्येकान्तवादितैव हीयेतेति ।
यदपि “वृत्तित्वस्य च सनिरूपकत्वेन निरूपकविशेषापुरस्कारेणाऽपरिपूर्णत्वे सप्तभङ्गीतोऽपि समूहालम्बनस्तद्विषयको बोधोऽपरिपूर्ण एव स्यादितीति”, तदप्युक्तिमात्रम् । परवादिसम्मतस्य निरूपकविशेषाद्यालिङ्गितस्यैव वृत्तित्वस्याऽवच्छेदकविशेषापेक्षया वोधस्य सप्तभङ्गीतोऽभ्युपगमेन तस्य तत एव परिपूर्णत्वात् । नहि यद्वस्तु यावद्धर्मसंवलितं तावद्धर्मोपादानपुरस्कारेण तावद्धर्मसंवलितवस्तुबोध एव परिपूर्णो बोधः, किन्तु निराकाङ्क्षबोध एव । यादृशेन बोधेन प्राश्निकस्याऽऽकाक्षोपशाम्यति तादृशबोधस्यैव परिपूर्णत्वात् । स च सप्तभङ्गीतो जायत एव ।
यच्च “वृत्तित्वरूपास्तित्वस्य संयोगेन घटाद्यधिकरणं यद् भूतलादि तादात्म्येन घटाद्यधिकरणं वा यन्मृदादि तन्निरूपकमेव न त्ववच्छेदकमित्यादि” तत्पूर्वोक्तयुक्त्यैवाऽपास्तम् । घटे भूतले भूतलत्वसामानाधिकरण्यं न तु पर्वते इत्यादिप्रतीत्यनुरोधेन निरूपकविधया वृत्तित्वस्वरूपनिविष्टस्याऽपि भूतलाद्यधिकरणस्याऽवच्छेदकविधया तत्सत्तानियमकत्वोपगमात् । अवच्छेदकत्वमेव च भूतलादीनां सप्तभङ्गीविषय इति न परमतादविशेषप्रसङ्गशङ्काऽपि । यदि च परोऽप्येवमभ्युपेयात् तदा सोऽपि स्याद्वाद्येव । देशनिरूपितवृत्तितायां कालस्य, कालनिरूपितवृत्तितायां देशस्य चाऽवच्छेदकत्वं यद्यपि परैरप्युपगम्यत इति तदंशे साम्यमेव, तथाऽपि देशनिरूपितवृत्तितायां देशस्य, कालनिरूपितवृत्तितायां कालस्य चाऽवच्छेदकत्वं न पराभ्युपगमविषय इति तदंशे स्याद्वाद: सावकाश एव । तथा च “देशनिरूपितवृत्तिताया''मित्यादि निरस्तमवगन्तव्यम् ।
यत्तु “किञ्च, क्षेत्रनिरूपितवृत्तित्व-द्रव्यनिरूपितवृत्तित्व-कालनिरूपितवृत्तित्वानां निरूपकभेदाद
१. पृ. ९ पङ्कि: ११ ।
२. पृ. ९ पं. १३ । ३. पृ. ९ पं. १६ । ४. पृ. ९ पं. २१ । ५. पृ. ९ पं. २३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org