________________
४२
सप्तभङ्गीप्रभा
यस्याऽपेक्षानिमित्तत्वसम्भवस्तत्तनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावत्त्वं तद्धर्मे स्यात्पदेन बोध्यते इत्येवं सुकरः सङ्केत्तग्रहः । स एव च स्यान्नित्य एव, स्यादिन्न एवेत्यादौ सर्वत्र शाब्दवोधोपयोगी । यतोऽनुगतरूपेणैकत्राऽसन्दिग्धप्रतिपत्तिको बालः सर्वत्र व्युत्पादयितुं शक्यः । घटत्वेनाऽस्त्येव घट इत्याद्यननुगतोक्तौ च तत्र विशेषतोऽपेक्षानिमित्तावगमेऽप्यन्यापेक्षानिमित्तानवगतेः कुतः परिपूर्णबोधोल्लासः ? मन्दधियं जिज्ञासुं प्रति च गुरूपायेन घटत्वेनाऽस्त्येव घट इत्यादिनाऽवबोधनमपि चतुरस्रमेव । सोऽपि च स्याद्वाद एव । किञ्चिन्निष्यवच्छेदकतानिरूपितावच्छेद्यतावत्तया धर्मावबोधनमेव स्याद्वादकृत्यं, तच्च स्यात्पदेन भवतु, तदन्यपदेन वा, सर्वथा सिद्धं नः समीहितम्, अलं शब्दकलहेन, विशेषोक्त्या सामान्यजिज्ञासाया विशेषजिज्ञासायाश्च निवृत्तिरिति को नाम नाऽनुमनुते ? परन्तूक्तदिशैव सामान्योक्तेः साफल्यम्, अतिव्युत्पन्नमतिं प्रति स्याद्विध्यात्मकधर्मवदेव वस्त्वित्यादिसप्तभङ्गन्यपीष्टैव ।
किञ्च, नेयं सप्तभङ्गी यथाश्रुता दोहदपूरणप्रवणा, जगत एव परमतेऽपि वाच्यत्वत्वादिना वाच्यत्वादिधर्मवत्त्वमादाय प्रथमभङ्गस्याऽवृत्तिमतो गगनादेरभावस्य केवलान्वयित्वेन गगनत्वादिना गगनादेरभावमादाय द्वितीयभङ्गस्योपपत्तिसम्भवात् ।
__ न च, यावद्विध्यात्मकधर्मवत्त्वं यावन्निषेधात्मकधर्मवत्त्वं च विवक्षणीयमिति वाच्यम् । * तथा सत्यसम्भवो दुरुद्धरः, सर्वस्य सर्वात्मकत्वं मा प्रसाक्षीदित्येतदर्थमेव हि सप्तभङ्गयुपासनं, तच्च तदैवोपपद्येत यदि यावद्विध्यात्मकधर्मतत्त्वमेकत्र न भवेत् । तथा च यद् वस्तु यद्विध्यात्मकधर्मवदेव स्यात् तद् वस्तु तनिषेधात्मकधर्मवदेव स्यादित्यादिरीत्या सप्तभङ्गी वाच्या । सा च यत्त्वतत्त्वयोरननुगतत्वपक्षेऽननुगतैवेति “तथाऽपि यदि सामान्योक्तिराद्रियते तदा यथा स्यादितिपदं सामान्यतोऽपेक्षानिमित्तस्योक्तिः, तथा भावभूतधर्मवदि"त्यादिग्रन्थसन्दर्भोऽसङ्गतार्थ एव स्यात् । यत्त्वतत्त्वयोरनुगतत्वपक्षे चेयमपि सप्तभङ्गी भवत्वनुगतार्था, तस्या अपि क्वचिदुपन्यासो नाऽस्माकमनिष्टप्रदः । वस्तुनः सामान्यविशेषोभयात्मकत्वेन तत्प्रतिपादनप्रकारस्याऽप्युभयात्मकतया तत्रैकस्य मुख्यत्वमपरस्य गौणत्वमेकान्ततो वक्तु मशक्यमेव । अनेकान्ततस्तथात्वं तु स्याद्वादमेवाऽनुधावति । स्यात्पदस्य कथञ्चिदित्यर्थकतया घटत्वेनेत्यादेरपि विशेषतस्तथात्वेन तद्घटितसप्तभङ्ग्या अपि स्याद्वादत्वं नाऽपैतीति कुतस्तद्वादिनः स्याद्वादिताहानिरित्यादि सुधीभिः स्वयमूहनीयम् ।
वृत्तित्वरूपास्तित्वस्य प्रथमभङ्गप्रतिपाद्यत्वे वृत्तित्वाभावरूपनास्तित्वस्य द्वितीयभङ्गप्रतिपाद्यत्वं स्वीक्रियत एव । तत्र यद्विकल्पितं "स्योत्पदबोध्यस्य कथञ्चिदित्यस्य किं प्रतियोगितावृत्तित्वेनाऽन्वयः, उत वृत्तित्वनिष्ठप्रतियोगितया किं वा वृत्तित्वाभावेने"ति ? तत्र तृतीयकल्पस्तावत् स्वीक्रियते, तेन प्रथमद्वितीयकल्पयोरपाकरणेऽपि न नः किञ्चिदपचीयते । तत्र यद्विकल्पितं "किं. यादृशस्य कथञ्चिदर्थस्य प्रथमभने १. पृ. ११ पं. १० । २. पृ. १२ पं. ६ । ३. पृ. १५ पं. १६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org