________________
सप्तभङ्गीप्रभा
स्यादवक्तव्यश्च घट इति पष्ठभड्नेन च कथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपिता सती कथञ्चिदवक्तव्यत्वनिष्ठप्रकारतानिरूपिता या घटनिष्ठविशेष्यता तन्निरूपको बोध इष्टः, स्यादस्ति स्यान्नास्ति स्यादवक्तव्यश्च घट इति सप्तमभड्रेन च कथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपिता सती कथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपिता सती कथञ्चिदवक्तव्यत्वनिष्ठप्रकारतानिरूपिता या घटनिष्ठविशेष्यता तन्निरूपको बोध इष्टः, न चैते वोधाश्चतुर्भिः प्रथमादिभङ्गैर्जन्यन्ते, यतः प्रथमभङ्गेन कथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपको बोधो जन्यते, द्वितीयभड्नेन च कथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपको बोधो जन्यते, तृतीयेन च भड्नेन कथचिदस्तित्वनिष्ठप्रकारतानिरूपिता सती कथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपिता या घटनिष्ठविशेष्यता तन्निरूपको बोधो जायते, चतुर्थेन च कथञ्चिदवक्तव्यत्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकवोधो जन्यते इत्येवं स्वजन्यवोधवैलक्षण्यफलकोक्तिवैचित्र्यात् सप्तभङ्गानामपौनरुक्त्यमिति विभाव्यते, तदा
“धर्माः सत्त्वादयः सप्त, संशयाः सप्त तद्गताः ।।
जिज्ञासाः सप्त सप्त स्युः, प्रश्नाः सप्तोत्तराण्यपि ।१।'' इति वचनादधर्माणां सप्तत्वमूलकं भङ्गानां सप्तत्वं प्रतीयमानं विरुद्ध्येत ।
किञ्च, विलक्षणवोधजनकतया सप्तभङ्गाभ्युपगमेऽस्तित्वनास्तित्वादीनां मध्यादेकस्य विशेष्यतावच्छेदकत्वमन्यस्य च प्रकारत्वमाश्रित्याऽपि वोधवैलक्षण्यसम्भवेन तत्तदबोधजनका भङ्गाः कथं नोपदिश्यन्ते ? तथैकस्य विशेष्यतावच्छेदकत्वं तदपरस्य प्रकारतावच्छेदकत्वमन्यस्य च प्रकारत्वमाश्रित्याऽपि विलक्षणस्य वोधस्य सम्भवेन तञ्जनका अपि भङ्गाः प्रयोक्तव्याः । एवं विधेयांशेऽधिकावगाहिनः शाब्दवोधस्याऽभ्युपगन्तॄणां नव्यानां मतमाश्रित्योद्देश्यतावच्छेदकस्य विधेयकोटावन्तर्भाव्य तत्प्रकारताकवोधवैलक्षण्यस्य सम्भवेनाऽपि तत्प्रयोजका भङ्गाः प्रयोक्तव्याः ।
यदि च घटत्वादिमात्रस्य विशेष्यतावच्छेदकत्वमेव, अस्तित्वादीनां च प्रकारत्वमेवेति नियमावष्टम्भेन सप्तैव भङ्गा विलक्षणवोधजनका नेतर इति सप्तानामेव प्रयोग इति विभाव्यते; तदाऽखिलपूर्वभङ्गविषयविषयकस्य सप्तमभङ्गस्यैव प्रयोगः समुचितः । तेन हि एकत्र द्वयमिति रीत्या जायमाने वोधे कथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपकत्वादिमत्त्वात् प्रथमभङ्गादिजन्यवोधकार्यकारित्वं सम्भवत्येव । प्रश्नानुरोधादपि भङ्गचतुष्टयस्यैव प्राप्तिः, स्यादस्त्येव घटः, स्यान्नास्त्येव घटः, स्यादवक्तव्य घट एवः, स्यादस्ति स्यान्नास्ति स्यादवक्तव्य एव घट इति, तृतीयपञ्चमषष्ठभङ्गकृत्यस्य सप्तमेनैव सम्पादनात् । यत इदानीमस्तित्वनास्तित्वादीनां परस्परं विशेषणविशेष्यभावमवलम्व्य लब्धात्मनो विशिष्टधर्मानाश्रित्य स्वरूपतो विषयवैलक्षण्याद् भड़ानां वैलक्षण्यतो न सप्तभङ्गा उपपाद्यन्ते किन्तु तत्तत्संशयनिवर्तकविलक्षणबोधजनकत्वत एव । तृतीयभङ्गोत्थापकश्च संशयः स्यादस्ति नास्ति न वेत्याकारकः, पथमभङ्गोत्थापकश्च स्यादस्ति अवक्तव्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org