________________
सप्तभङ्गीप्रभा
३५
तत्सद्भावे वा तत्प्रकारमुपादायाऽस्तित्वनास्तित्वे अपि तृतीयभङ्गे भासेतामिति न क्रमार्पणमपि तयोस्तु | तदभावे च तद्विरोधिसहार्पणमपि कथमनुभवपथमागच्छतु ? एवमेवाऽभ्युपगमे च सर्वथैवोच्छिन्नस्तुरीयभङ्गः । कस्याऽनुरोधेन प्रथममप्यवक्तव्यत्वं कल्पनीयम् ?
किञ्चाऽवक्तव्यत्वस्य यदि धर्मान्तरेण सह युगपदर्पणं नैवाऽभिमतमायुष्मतः कथं तर्हि स्याद्वक्तव्यो घटः, स्यादवक्तव्यो घटः, स्याद्वक्तव्योऽवक्तव्यश्च घटः स्यादवक्तव्यो घटः स्याद्वक्तव्योऽवक्तव्यश्च घटः, स्यादवक्तव्योऽवक्तव्यश्च घटः, स्याद्वक्तव्योऽवक्तव्योऽवक्तव्यश्च घट इतीयं सप्तभङ्गी सूपपादा ?
न च वक्तव्यत्वावक्तव्यत्वधर्मप्ररूपणे सप्तभी न प्रवर्तत एवेति शक्यं वक्तुम् । तथा सप्तभङ्गयाः सर्वधर्मव्यापकत्वस्याऽभिमतस्य व्याकोपः । ततो न बिभेषि चेत् कथमन्यस्य युगपदर्पणं भवति नाऽवक्तव्यत्वस्येत्यत्र दीयतामुत्तरम् । न च वक्तव्यत्वेन सहाऽवक्तव्यत्वस्य युगपदर्पणं भवति, न तु धर्मान्तरेण सहेत्यत्र प्रमाणं किञ्चिदस्ति । तस्माद् न तुरीयभङ्गो विचारचूलामवलम्बते । तदभावे त्रयोऽपि तदधीनसिद्धिका अग्रिमभङ्गा दूरोत्सारिता एव । इतोऽपि न पञ्चमादिभङ्गाः सम्भवन्ति । तथा हिप्रथमभङ्गेनाऽस्तित्वस्य, द्वितीयभङ्गेन नास्तित्वस्य तृतीयभङ्गेन क्रमार्पितास्तित्वनास्तित्वयोः, तुरीयभङ्गेन युगपदर्पितास्तित्वनास्तित्वयोश्च प्रतिपादने वृत्ते किमपरमवशिष्टं यदवबोधनाय पञ्चमादिभङ्गाः प्रवर्तेरन् ?
ननु अस्तित्वविशिष्टावक्तव्यत्व-नास्तित्वविशिष्टावक्तव्यत्व-क्रमार्पितास्तित्वनास्तित्वोभयविशिष्टावक्तव्यत्वान्यवशिष्टानि । नैतानि प्रथमभङ्गचतुष्टयैः प्रतिपादितानीति तत्प्रतिपादनाय कथं न पञ्चमादिभङ्गाः प्रवर्तेरन् ? इति चेत्;
नैतानि विशेषणविशेष्याभ्यां भिन्नान्येव । तथा सति तैरपि सममस्तित्वादेः प्रत्येकं वैशिष्ट्यमाश्रित्य विशिष्टान्तराणि स्युः । एवं तैरपीत्यनवस्थितभङ्गपरम्पराप्राप्तौ कुतः सप्तभङ्गी ? नाऽप्यभिन्नानि तथा सति विशेषणविशेष्ययोः प्रतिपादने तत्प्रतिपादनस्याऽपि वृत्तत्वान्निष्प्रयोजनत्वादनारम्भ एव पञ्चमादिभङ्गानाम् । नूक्तदोषभयादेव न भिन्नानि नाऽप्यभिन्नानि किन्तु कथञ्चिद्विन्नानीति चेत्; भवन्मतेऽस्तित्वनास्तित्वयोरपि कथञ्चिदेद एव, तथा सत्यपि यथा तयोः क्रमार्पणं युगपदर्पणं चाऽऽदाय भङ्गान्तरप्रवृत्तिस्तथा विशिष्टान्तराणामपि स्यात्, अविशेषात् ।
7
न च स्यादस्ति स्यादस्त्यवक्तव्यश्चेत्येवं भङ्गान्तरं प्रवर्तेत, तर्हि तत्राऽस्तीति पुनरुक्तं स्यात् । एवं स्यान्नास्ति स्यान्नास्त्यवक्तव्यश्चेत्यत्राऽपि नास्तीति पुनरुक्तमिति वाच्यम् ।
एकेन स्तिनाऽवक्तव्यत्वेन सहाऽस्तित्वस्य सामानाधिकरण्यं प्रतिपाद्यते । द्वितीयेन तु विशिष्टभावमापन्नेन धर्मान्तरेणाऽस्तित्वविशिष्टावक्तव्यत्वेनेत्येवं पौनरुक्त्याभावात् । यदि च विशिष्टपक्षो नाऽऽद्रियते, किन्तु स्यादस्ति स्यादवक्तव्यश्च घट इति भङ्गेन कथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपिता सती कथञ्चिदवक्तव्यत्वनिष्ठप्रकारतानिरूपिता या घटनिष्ठविशेष्यता तन्निरूपको बोध एकत्र द्वयमिति न्यायेनेष्टः स्यान्नास्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org