________________
भङ्गप्रभा
चाऽस्तित्वप्रतिपादनावसरे भेदादीनामप्रस्तावादेव न तत्प्रतिपादकभङ्गप्रवेश इति शक्यं वक्तुं दत्तोत्तरत्वात् ।
किञ्चाऽवक्तव्यत्वस्य धर्मान्तरत्वपक्षे तस्य निमित्तभेदेन विभिन्नस्याऽऽश्रयणे यथा द्वाभ्यां युगपदर्पिताभ्यामस्तित्वनास्तित्वाभ्यामेकस्य वस्तुनो विवक्षायां तादृशस्य शब्दस्याऽसम्भवादवक्तव्यत्वं तथा त्रिभिर्युगपदर्पितैरस्तित्वनास्तित्वावक्तव्यत्वैरेकस्य वस्तुनो विवक्षायां तादृशस्य शब्दस्याऽभावादवक्तव्यत्वान्तरं स्यादेव, युक्तौल्यात् । तथा हि- सत्त्वासत्त्वयोः प्रधानतया युगपत्प्रतिपादने न कस्याऽपि शब्दस्य शक्तिः । अस्तीति पदं सत्त्वस्याऽभिधायकं नाऽसत्त्वस्य । एवं नास्तीति पदमसत्त्वाभिधायकं, न सत्त्वस्य । स्यादस्त्येव स्यान्नास्त्येव घट इति वाक्यं च क्रमार्पितास्तित्वनास्तित्वोभयप्रतिपादकं, न तु युगपदर्पितोभय-प्रतिपादकम् । शतृशानचोः सङ्केतितोऽपि सन्शब्दो युगपच्चन्द्रसूर्ययोः सङ्केतितोऽपि पुष्पवन्तशब्दः क्रमेणैवाऽर्थद्वयप्रतिपादकस्तथा यद्यन्यः कश्चित् सत्त्वासत्त्वयोः सङ्केतितः स्यात् सोऽपि शब्दमर्यादामनतिक्रम्यैव प्रतिपादकः स्यात् । सेनावनादिपदानामपि समूहविशेषात्मकैकार्थप्रतिपादकत्वमेव । वृक्षौ वृक्षा इत्यत्रैकशेषपक्षे द्वाभ्यामेव वृक्षपदाभ्यां बहुभिरेव च वृक्षपदैर्वृक्षयोर्वृक्षाणां चाऽभिधानं तदन्यपक्षे च स्वभावत एव द्विबहुवचनान्तवृक्षपदयोर्द्वित्वबहुत्वविशिष्टवृक्षप्रतिपादकत्वम् । सुप्तिङन्तं पदमिति पक्षे वृक्षो वृक्षा इत्यादीनामेकपदत्वेऽपि तत्र प्रकृतिप्रत्ययविभागस्याऽऽवश्यकतया प्रकृतेर्वृक्षस्य प्रथमं वृक्षत्वावच्छिन्नबोधकत्वं ततो विभक्तियुक्तस्य तस्य लिङ्गसङ्ख्याबोधकत्वमिति नैकस्य पदस्य युगपत्प्रधानतयाऽनेकधर्मावच्छिन्नबोधकत्वम् । प्रमाणवाक्यस्याऽपि चैकधर्ममुखेनैव द्रव्यपर्यायनयार्पितेन कालादिभिरष्टभिरभेदवृत्त्याऽभेदोपचारेण वा सकलधर्मात्मकवस्तुप्रतिपादकत्वम् । सत्त्वासत्त्वे इति द्वन्द्वस्याऽपि च क्रमेणैवाऽवाऽर्थद्वयप्रत्यायकत्वं न वा तस्याऽस्तित्वनास्तित्वोभयविशिष्टधर्मिप्रतिपादकत्वम् । सदसत्त्वविशिष्टं वस्त्विति द्वन्द्वगर्भितत्पुरुषोऽपि सत्त्वासत्त्ववैशिष्ट्यस्यैव प्रधानतया प्रतिपादको, न तु सत्त्वासत्त्वयोरिति यथा ताभ्यामवक्तव्यो घटस्तथैवोक्तयुक्त्या सत्त्वासत्त्वावक्तव्यत्वैरपीत्यतोऽप्यवक्तव्यत्वं धर्मान्तरमास्थेयमित्यनवस्था ।
३४
न चाऽवक्तव्यत्वस्य धर्मान्तरैः सह युगपदर्पणं नाऽभ्युपगम्यत एवेति न तदवलम्बनेनाऽवक्तव्यत्वान्तरोपनिपात इति वाच्यम् ।
एवं सति क्रमार्पणमपि धर्मान्तरेण सह तस्य माऽस्तु । तथा च स्यादस्ति स्यादवक्तव्य इत्यादयोऽपि भङ्गा विलीयेरन् । यथा हि स्यादस्ति स्यान्नास्तीति तृतीयभङ्गेऽस्तित्त्वनास्तित्वयोः क्रमार्पणं तथा पञ्चमभङ्गेऽप्यस्तित्वावक्तव्यत्वयोरपि क्रमार्पणमव्याहतमेव ।
न चाऽस्तित्वस्यैकस्य पृथगस्तित्वनास्तित्वयोश्च युगपदर्पणादेव पञ्चमभङ्गप्रवृत्तिर्न त्ववक्तव्यत्वस्य क्रमार्पणं तत्र विद्यत इति वाच्यम् ।
अहो वैदग्ध्यं भवतः, यदवक्तव्यत्वं न क्रमेणाऽर्पितं नाऽपि युगपदर्पितं तथाऽपि धर्मान्तरेण सह भासत इति । न हि क्रमार्पणं युगपदर्पणमन्तरेण धर्मान्तरेण सह धर्मान्तरस्य भाने तृतीया भिदाऽस्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org