________________
सप्तभङ्गीप्रभा
यद्यस्तित्वादिप्रत्येकधर्मविशिष्टस्य घटस्य वाक्यप्रतिपाद्यत्वेन वक्तव्यत्वं तथा स्वस्वापेक्षानिमित्तसंवलितयुगपदर्पितास्तित्वनास्तित्वविशिष्टघटे कस्यचिद् वाक्यस्य तात्पर्याख्यवृत्तिसत्त्वे वक्तव्यत्वमेव । तात्पर्याभावे च न तस्य शाब्दबोधे कथमपि प्रवेश इति कस्याऽवक्तव्यत्वं तुरीयभङ्गविषयः स्यात् ? एतेन तृतीयचतुर्थभङ्गयोर्विषयभेदोपपादनाय तृतीयेऽस्तित्वनास्तित्वोभयस्य प्राधान्यम्, चतुर्थे त्ववक्तव्यत्वरूपधर्मान्तरस्येति निरस्तम् । न ह्युक्तदिशाऽवक्तव्यत्वस्यैवाऽभावे तस्य प्राधान्यं घटत इति ।
तुल्ययुक्त्याऽवक्तव्यत्ववद् वक्तव्यत्वस्याऽपि धर्मान्तरस्योपपादितत्वेन “सामान्येन वक्तव्यत्वस्याऽतिरिक्तस्याऽभावात्, सत्त्वादिरूपेण वक्तव्यत्वं तु प्रथमभादावेवाऽन्तर्भूतम् । अस्तु वा वक्तव्यत्वं नाम कश्चन धर्मोऽतिरिक्तः, तथाऽपि वक्तव्यत्वावक्तव्यत्वाभ्यां विधिप्रतिषेधकल्पनाविषयाभ्यां सत्त्वासत्त्वाभ्यामिव सप्तभङ्गयन्तरमेव प्राप्नोतीति न सत्त्वासत्त्वप्रमुखसप्तविधधर्मव्याघातः” इति। विमलदासोक्तिरप्यपास्ता । यथाऽवक्तव्यत्वं धर्मान्तरं तथा वक्तव्यत्वमपीति कोऽत्र विशेषो, येनाऽवक्तव्यत्वप्रतिपादकस्य भङ्गस्य मध्ये सन्निवेश्य सप्तभङ्गी सम्भवति ? न तु वक्तव्यत्वप्रतिपादकं भङ्गमुपनिवेश्येति ।
किञ्च, अवक्तव्यत्वं यदि धर्मान्तरं तदाऽस्तित्वनास्तित्वादिधर्मप्रतिपादकसप्तभङ्गीप्रविष्टतुर्यभङ्गविषयस्य तस्य नित्यत्वानित्यत्वभेदाभेदादिप्रतिपादकसप्तभङ्गीप्रविष्टतुर्यभङ्गविषयात् । तस्मादविशेषप्रसङ्गः ।
न चाऽपेक्षानिमित्तभेदाद् विशेषो भविष्यति, एकस्याऽपेक्षानिमित्तं युगपदर्पिते अस्तित्वनास्तित्वे, अन्यस्य चाऽपेक्षानिमित्तं युगपदर्पिते नित्यत्वानित्यत्वे, तदन्यस्य च युगपदर्पितौ भेदाभेदावित्येवमादीति वाच्यम् ।
1
नह्येकस्यैकमेवाऽपेक्षानिमित्तमित्यस्ति नियमः, येन निमित्तभेदाद् भेदः स्यात् । तथा सति सत्त्वादेरपि स्वद्रव्यादिमध्यादेकमेव किञ्चिन्नमित्तं स्यात् । किञ्चाऽपेक्षानिमित्तघटितरूपताविनिर्मोकेणाऽनुभूयमानयोरेकत्रोपपत्त्यर्थमवच्छेदकभेदकल्पना भवति, नाऽन्यथा । न चाऽवक्तव्यत्वात्मकधर्मा बहवः पृथगनुभूयन्ते येन तन्मध्यादेकस्याऽपेक्षानिमित्तविशेषनियतस्याऽस्तित्वादिधर्मसप्तके प्रवेशः, अन्यस्य च तस्य तथाभूतस्य नित्यत्वादिधर्मसप्तके, तदन्यस्य च भेदादिधर्मसप्तके इत्येवं विवेचनं स्यात् ।
न चाऽस्तु सर्वसप्तभङ्गीप्रविष्टतुर्यभङ्गप्रतिपाद्य एक एवाऽवक्तव्यत्वनामा धर्मः । तदादायैव सप्तभ सूपपादा भविष्यतीति वाच्यम् ।
३३
Jain Education International
एकस्यां सप्तभङ्गयां विधिनिषेधभावमापन्नानां धर्माणां प्रतिपादका एव भङ्गा घटका नाऽन्ये इति नियममवक्तव्यत्वरूपधर्मान्तरप्रतिपादकभङ्गोपवेशनेन परित्यजतो मते यथा तस्यैकस्याऽवक्तव्यत्वस्याऽस्तित्वादि सम्बन्धि तथा भेदादिधर्मकदम्बकमपि । तथा च स्यादस्ति स्यादवक्तव्य इतिवत् स्याद्भिन्नः स्यादवक्तव्य इत्यादयोऽपि भङ्गा एकस्मिन्नेव महावाक्ये प्रविशेरन् । ततश्च तद्वाक्यं सप्तभङ्गीत्वं कथमासादयेत् ? न 1. सप्तभङ्गीतरङ्गिणी पृ. १० प. ४ ।
For Private & Personal Use Only
www.jainelibrary.org