________________
सप्तभङ्गप्रभा
नास्तित्वं च विषयीकरोतीति तादृशवुद्धिजननसमर्थत्वादस्तित्वनास्तित्वे इति समासवाक्यस्यैव युगपदर्पितयोस्तयोरभिलापकत्वात् ।
३२
किञ्चाऽस्तित्वं द्रव्यार्थिकनयविषयो नास्तित्वं च पर्यायार्थिकनयविषय इति विषयभेदान्नययोरस्तित्वे नास्तित्वे च मिश्रणमेव नाऽस्तीति तत्प्रयुक्तं युगपदर्पितत्वं नाऽस्तित्वनास्तित्वयोरिति व्यधिकरणेन तेन तयोर्वक्तव्यत्वाभावप्रतिपादने कः पुरुषार्थः ? ईदृशानां व्यधिकरणानां बहूनां सद्भावेऽस्यैव निमित्ततयाऽऽश्रयणे बीजाभावात् । नाऽपि सत्त्वासत्त्वापेक्षानिमित्तानां स्वद्रव्यादिपरद्रव्यादीनां युगपदर्पितानामवक्तव्यत्वं तुर्यभङ्गविषय इति तृतीयोऽपि युक्तः, तत्राऽप्युक्तन्यायस्य सर्वस्य समानत्वात् ।
न च निमित्तानामवक्तव्यत्वे स्यादवक्तव्यो घट इति कथं स्यात् ? अन्यस्याऽवक्तव्यतायामन्यस्याऽवक्तव्यत्वप्रकारतयाऽवबोधने वाक्यस्याऽप्रमाणत्वापातादिति शङ्क्यम् ।
निमित्तानामवक्तव्यत्वे तद्विवेचनविविक्तस्वभावयोरस्तित्वनास्तित्वयोरप्यवक्तव्यतायां तद्रूपेण घटस्याऽप्यवक्तव्यत्वस्य न्याय्यत्वेन तदादाय स्यादवक्तव्यो घट इत्यस्योपपत्तेः । स्वस्वापेक्षानिमित्तसंवलितयुगपदर्पितास्तित्वनास्तित्वविशिष्टस्य घटस्याऽवक्तव्यत्वं तुर्यभङ्गविषय इति तुर्यपक्षोऽपि नाऽऽनन्दोल्लासकः । तथा हि - तथाविशिष्टतामाभेजानस्य घटस्याऽवक्तव्यत्वप्रकारतया भानं तदा स्याद् यदि विशेष्यसमर्पकस्य घटपदस्य तथाभूतविशिष्टपरत्वं स्यात् । एवं च विशिष्टस्य विशेष्यविधया वोधानुरोधेन घटपदस्य तत्र गौणवृत्तेराश्रयणस्याऽऽवश्यकतया गौण्या वृत्त्योक्तविशिष्टस्य घटपदवक्तव्यत्वे जागरूकेऽवक्तव्यत्वं तत्र न निमित्तान्तरमन्तरेणेति निमित्तान्तरं वक्तव्यम् । तद् यदि स्यात्पदस्य वक्तव्यतां कथञ्चिद् बिभर्ति तदा किमपरमवशिष्टं वक्तव्यतायां, येन वक्तव्यमेव न स्यात् ? अथ न तन्निमित्तं स्यात्पदवोध्यं तर्हि निमित्ताप्रतिभासादेव न तन्निमित्तकस्याऽवक्तव्यत्वस्याऽवभाससम्भवः ।
ननु गौण्या वृत्त्या विशिष्टस्य भवतु वक्तव्यता नाम, मुख्यया तु वृत्त्या न कोऽपि शव्दस्तादृशं विशिष्टमर्थमभिदधातीतीत्थमवक्तव्यता सूपपादेति चेत्;
एवं सत्यस्तित्वादिप्रत्येकधर्मविशिष्टस्याऽपि घटस्य मुख्यया वृत्त्या न घटपदं तदन्यपदं वाऽभिधायकमिति तथा विवक्षायामप्युक्तदिशाऽवक्तव्यत्वस्य सम्भवेन स्वस्वापेक्षानिमित्तेत्यादिविशिष्टतारूपाश्रयणस्याStतिप्रयोजनकत्वमेव ।
न च स्यादस्त्येव घट इत्यत्राऽस्तित्वविशिष्टघटस्याऽभिधानमस्त्येवेति वाच्यम् ।
न ह्यस्तिपदं घटपदं वाऽस्तित्वविशिष्टघटस्याऽभिधायकम् । अस्तित्वावच्छिन्नेऽस्तिपदस्य घटत्वावच्छिन्ने च घटपदस्य मुख्यवृत्तिः, न तु विशिष्टे । वाक्यं तु यद्यपि विशिष्टार्थस्याऽवबोधकं तथाऽपि न तस्याऽभिधाख्या मुख्या वृत्तिः । तात्पर्याख्या वृत्तिस्तु तस्य यथैकपदशक्यार्थान्वितेऽपरपदशक्यार्थे, तथा लक्ष्यार्थेऽपि । अन्यथा तस्य शाब्दबोधविषयतैव न स्यात् । तथा च वाक्यस्य तात्पर्याख्यवृत्तिमवलम्व्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org