________________
सप्तभङ्गीप्रभा
च्छेदकत्वमिति नियमेनाऽवक्तव्यत्वमेव तदपेक्षया वर्तत इति तुरीयभङ्गोऽशक्यापह्नव इति चेत्,
आरोपे सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोप इति यद्यवक्तव्यत्वं प्रथमतः प्रतीतिपथमारोहेत् तदा वक्तव्ये घटे कथं तदिति जिज्ञासानिवर्तनाय किञ्चिदपेक्षानिमित्तमुपयुज्येत ? अवक्तव्यत्वस्वरूपाप्रतिपत्तौ तु तन्निमित्तस्य प्रथमत उपादानमेव चतुरस्रम् । न हि कपिसंयोग - तदभावावप्रतिसन्धायैव कश्चिन्मूलं शाखां चाऽपेक्षानिमित्तमुपादत्ते । ततश्च तदवच्छेद्यं विविच्य योजयत्ययमस्याऽवच्छेद्योऽयं चाऽस्येति । न च परिशेषोऽपि युक्तः, यतोऽपेक्षानिमित्ततया यदभिमतं तत् स्यात्पदेन बोध्यमेव । घटोऽपि स्वशब्देन बोध्य इति शब्दबोध्यतैव च वक्तव्यतेति कथं वक्तव्यत्वमेव ततो न स्यात् ?
ननु, यदि तादृशाभ्यामस्तित्वनास्तित्वाभ्यामयं वचनार्हस्तर्हि कीदृगस्य वचनं तदेवोच्यतां तावतैव विवादपर्यवसानादिति चेत्; तत् किं ताभ्यां सर्वथैव वचनानर्ह एव घटः ? तथा सति वचनमये सप्तभङ्ग्यात्मक महावाक्ये ताभ्यां तस्य प्रवेश एव न स्यात् । नहि वचनानर्हस्य वचनपरिपाट्यां सन्निवेशो युज्यते ।
ननु, क एवमाह सर्ववचनानर्ह इति ? किन्तु ताभ्यामस्य निरूपणेऽवक्तव्यवचनातिरिक्तं वचनमस्य नास्तीति । नन्वेवमवक्तव्यात्मकवचनेन वक्तव्योऽसाविति भवतोऽप्यनुमतस्तथा च किं वचनविशेष - परीक्षया ? स्याद्वक्तव्य एव घट इत्येव तुर्यभङ्गस्थाने निवेश्यताम् । तत्र वच्धात्वर्थे वचनसामान्येऽवक्तव्याख्यवचनविशेषस्याऽप्युपनिवेशसम्भवेन तदादाय वक्तव्यत्वस्याऽनिर्बाध एव ।
३१
-
नन्वेवं सति वक्तव्यशब्दप्रतिपाद्यत्वे कथमवक्तव्यशब्दप्रतिपाद्यता ? तत्किमवक्तव्य - शब्दप्रतिपाद्योऽपि सन्न वक्तव्यः ? तथा च सति कथं न वक्तव्यशब्दप्रतिपाद्यः ? । तस्मान्न घटस्याऽवक्तव्यत्वं तुर्यभङ्गविषयः । नाऽपि युगपदर्पितयोरस्तित्वनास्तित्वयोरवक्तव्यत्वं तुर्यभङ्गविषयः । तथा सति स्यादवक्तव्ये अस्तित्वनास्तित्वे इति स्यात्, न तु स्यादवक्तव्यो घट इति, घटस्याऽतद्धर्मत्वात् । यदि च परम्परया तस्य तद्धर्मत्वमाश्रित्य स्यादवक्तव्यो घट इति भङ्ग उपपाद्यते तर्हि वक्तव्यं भवता यदस्तित्वनास्तित्वे उद्दिश्याऽवक्तव्यत्वस्य विधायकं वाक्यमस्ति न वेति ? अन्त्ये विधायकाभावादस्तित्वनास्तित्वयोरेवाऽऽत्मानमनासादयत् तत् कथं परम्परया घटे स्वस्थितिं स्थिरीकुर्यात् ? आद्ये कीदृग् विधायकं वाक्यं तद्वाच्यम् ?
ननूक्तं भवतैव स्यादवक्तव्ये अस्तित्वनास्तित्वे इति । सत्यमुक्तं परन्त्वस्तित्वनास्तित्वाभ्यां वाच्ययोस्तयोरवक्तव्यत्वे किं निमित्तं यत्स्यात्पदेन बोध्यते ? युगपदर्पितत्वमिति चेत्, एवं सति युगपदर्पित्वस्याऽस्तित्वनास्तित्वयोश्च वाच्यत्वे किमपरमवशिष्टं येन वक्तव्यत्वं न स्यात् ?
Jain Education International
ननु, द्वन्द्वसमासेन सर्वप्रधानेनाऽस्तित्वनास्तित्वे इत्येवंरूपेण प्राधान्येनाऽस्तित्वनास्तित्वे यद्यपि बोध्येते, तथाऽपि न युगपत्, किन्तु क्रमेणैवेति युगदर्पितयोस्तयोरभिलापकपदाभावादवक्तव्यत्वमिति चेत्; न, बुद्धेर्विरम्य व्यापाराभावेन यदैवाऽस्तित्वनास्तित्वे इत्यनेनोत्पद्यते बुद्धिस्तत्क्षण एवाऽस्तित्वं
For Private & Personal Use Only
www.jainelibrary.org