________________
सप्तभङ्गप्रभा
एवं सति स्यादस्त्येव घटः, स्यान्नास्त्येव घटः, स्यादस्ति नास्ति च घटः, इति भङ्गत्रयसमाहाररूपायां त्रियामस्तूत्तरस्य विश्रान्तिः । अयं तु घटो वक्तव्यो न वा ? इत्यादिः प्रश्नो भिन्नविषयक एव । ततश्च स्याद्वक्तव्य एव घटः, स्यादवक्तव्य एव घटः स्याद्वक्तव्योऽवक्तव्यश्च घट इति त्रिभङ्गयुत्तरवाक्यं भवतु नाम । न तु तन्मध्यादेकस्य भङ्गस्याऽस्तित्वादिप्रतिपादकभङ्गसमूहे योजनया तन्मूलकभङ्गान्तरयोजनया सप्तभङ्गयुपपादनं युक्तम् ।
३०
किञ्चाऽयं तुर्यभङ्गः कस्याऽवक्तव्यत्वमनुशास्ति ? किं घटस्योत युगपदर्पितयोरस्तित्वनास्तित्वयोरुत तन्निमित्तयोः स्वद्रव्यादिपरद्रव्याद्योः, स्वस्वापेक्षानिमित्तसंवलितयुगपदर्पितास्तित्वनास्तित्वविशिष्टस्य घटस्य वा ?
I
आद्ये, अस्तित्वादिना वक्तव्ये घटे नाऽपेक्षानिमित्तमन्तरेणाऽवक्तव्यत्वमात्मानं लभत इति किञ्चिदपेक्षानिमित्तं वाच्यम् । तद् यदि युगपदर्पितं स्वद्रव्यादिपरद्रव्यादिकं तर्हि तत् तथाविधं स्यात्पदेन द्योत्यं वाच्यं वा कक्षीकरणीयम् । अन्यथाऽपेक्षानिमित्ताप्रतिभासे किमपेक्षयाऽवक्तव्यत्वं भासेत ? एवं च घटोऽपि स्वयं वाच्यः । अवक्तव्यत्वस्याऽपेक्षानिमित्ततया यदभिमतं तदपि वाच्यम् । एवं सत्य घटस्याऽवक्तव्यत्वमिति नाऽनुभवपथमधिरोहति ।
ननु कथं नाऽनुभवपथमधिरोहति ? यतः स्वद्रव्याद्यपेक्षयाऽस्ति घटः, परद्रव्याद्यपेक्षया नाऽस्ति घटः, क्रमार्पितस्वद्रव्यपरद्रव्याद्यपेक्षया प्राधान्येन क्रमार्पितास्तित्वनास्तित्ववान् घटः, युगपदर्पितस्वद्रव्यपरद्रव्याद्यपेक्षया प्राधान्येन युगपदर्पितास्तित्वनास्तित्वाभ्यां घटस्य वक्तुमशक्यत्वादवक्तव्यत्वमित्यनुभूयत एवेति चेत्;
किमिदानीं स्वस्वापेक्षानिमित्तसंवलितं प्राधान्येन युगपदर्पितास्तित्वनास्तित्वोभयमवक्तव्यत्वस्याऽपेक्षानिमित्तमुरीक्रियते भवता ? ओमिति चेत्, तर्हि तदेवाऽपेक्षानिमित्तमवश्यं स्यात्पदबोध्यमुरीकर्त्तव्यं घटोऽपि च वक्तव्य एवेति किमपरमवशिष्टं वक्तव्यतायां येन तदपेक्षयाऽवक्तव्यो घटः स्यात् ?
न च स्यात्पदेन बोध्यतां नामाऽपेक्षानिमित्ततया तथाविधमस्तित्वनास्तित्वोभयं घटोऽपि च घटपदेन, तथाविधस्य तदुभयस्य प्रकारतया घटे भानप्रयोजकं न किमपि पदं विद्यत इत्यतोऽवक्तव्यत्वं घटस्येति वाच्यम् ।
यद्व्यपेक्षानिमित्तं न तदेव प्रकारः प्रथमभङ्गादावपि अस्तित्वादिकं तत्र प्रकारः स्वद्रव्यादिकं चापेक्षानिमित्तम् । तथा चाऽपेक्षानिमित्ततयाऽऽश्रितस्य तस्य प्रकारत्वाभावेऽपि नैतावताऽवक्तव्यत्वं, तथा सति प्रथमभङ्गादिस्थानेऽप्ययं भङ्गोऽभिषिच्यताम् ।
ननु, तादृशस्याऽस्तित्वनास्तित्वोभयस्याऽपेक्षानिमित्तत्वे किञ्चिदपरमापेक्षिकं वक्तव्यमेव, अन्यथा कस्य तदुभयमपेक्षानिमित्तं स्यात् ? न च तद्वक्तव्यत्वस्य निमित्तमिति प्रतियोग्यनवच्छेदकस्याऽभावाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org