________________
सप्तभङ्गीप्रभा
एवं सत्यवक्तव्यत्वप्रतिपादकोऽपि भझे नाऽऽदरणीय एव स्यात् । यदि च प्राधान्येन युगपदुभयविवक्षायां वक्तुमशक्यत्वात् तस्य प्रस्ताव एवेति विभाव्यते तदैकैकस्य प्राधान्यविवक्षायां वक्तुं शक्यत्वाद् वक्तव्यत्वस्याऽपि प्रस्ताव इत्यपि विभाव्यताम् ।
२९
किञ्चोक्तविवक्षायां सत्यामयं धर्म उपतिष्ठते, अस्तित्वादिवद् यावत्सत्त्वं धर्मिणि सन्नेव वा, कल्पनापाधिको वा ?
नाऽऽद्यः, वक्तृविवक्षादिघटिता हि शव्दसामग्री शब्दं तद्गतं च तारत्वादि जनयितुं समर्था साक्षात्, परम्परया च शाव्दधियं, न त्वर्थगतं धर्मान्तरम् । शाब्दबुद्धिद्वारा चाऽर्थगतां विषयतां जनयेदपि । न च साऽवक्तव्यत्वं न वा वक्तृविवक्षयोत्थापितस्य स्वरूपस्य श्रोतृवुद्धौ प्रतिभानसम्भवः ।
नाऽपि द्वितीयः, अस्तित्वादिवत् तस्याऽपि प्रत्यक्षादिज्ञाने भानप्रसङ्गात् ।
न च प्रतिभासत एव केवलज्ञाने तदिति वाच्यम् ।
तस्य शपथैकनिर्णेयत्वात् । अयोग्यत्वात् प्रत्यक्षाविषयोऽप्यवक्तव्यत्वं शब्दविषय इति त्ववोध - विजृम्भितम् । यो हि वचनप्रतिपाद्यो न भवति सोऽवक्तव्य इत्युच्यते, तद्भावोऽवक्तव्यत्वं शब्दविषयो, न तु प्रत्यक्षविषय इति स्वशिष्य एव वोधयितुं शक्यः ।
नाऽपि तृतीयः, कल्पनाकोशस्याऽस्खलितप्रचारत्वेन यथाऽवक्तव्यत्वं भवता प्रकल्पितं तथा युगपत्प्राधान्यविवक्षायां तथा ज्ञातुमशक्यत्वेनाऽज्ञेयत्वं प्रकल्प्य स्यादज्ञेय एव घट इति भोऽपि किं नाऽङ्गीक्रियते ? नन्वेवं स्ववचनविरोध एव स्यात् । कथं ह्यज्ञेयश्च स्यात् तथा ज्ञेयश्चेति ? एवं प्रेक्षावता भवताऽवक्तव्यत्वेऽपि दीयतां दृष्टिः । यदि च तद्विरोधपरीहारायैव तत्र स्यात्पदं प्रयुज्यते, तर्हि प्रकृतेऽपि तुल्यम् । किञ्च विवक्षाऽपि सैव युज्यते यया वचनप्रतिघातो न भवति । सहार्पिता - स्तित्वनास्तित्वविवक्षा तु नैवम्भूतेति परित्यज्यतां सैव । नैतदनुरोधेन तुर्यादिभङ्गकल्पना युक्तिमती ।
ननु, न प्रतिपादयित्रा स्वयमेवाऽऽदृता सा, येन तां तथाभूतामनादृत्य चतुर्थभङ्गाद्यप्रयोगो युज्येत, अपि तु प्राश्निकप्रश्नवशात् ।
प्रश्नश्च सहार्पितास्तित्वनास्तित्वोभयगोचरस्तत्संशयजिज्ञासासमुत्तम्भितोऽपर्यनुयोज्य इति तन्निवर्तनायोक्तविवक्षया तुर्यभङ्गप्रयोग आवश्यक इति चेत्;
न, यतो यदि सहार्पितास्तित्वनास्तित्वोभयं वक्तुमशक्यं तर्हि प्रश्नोऽपि वचनरूपस्तद्विषयकः कथं प्रवर्त्तेत ? न ह्यन्यः पृच्छाविषयोऽन्यश्चोत्तरविपय इति ।
ननु घटो वक्तव्यो न वेति ? किं घटो वक्तव्य एवेति ? किं घटोऽवक्तव्य एव ? इत्याकारः प्रश्नः सम्भवत्येवेति चेत्;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org