________________
२८
तथाऽवक्तव्य इत्युक्ते तत्प्रवृत्तिनिमित्तमवक्तव्यत्वं विहितं भवति । तच्च वक्तव्यत्वाभावरूपमपेक्षानिमित्तोपवन्धविनिर्मुक्तमस्तित्वादिप्रत्येकरूपेण वक्तव्ये वस्तुनि नाऽऽत्मानमासादयतीति स्यात्पदाववोध्ययुगपदर्पितास्तित्वनास्तित्वापेक्षानिमित्तद्वयसंवलितवक्तव्यत्वाभावस्वरूपतामासादयत् तुरीयभङ्गविषय इति किमपरं वक्तव्यमत्राऽ
सप्तभङ्गप्रभा
वशिष्टम् इति चेत्;
न, अपेक्षानिमित्तं हि वक्तव्यत्वे वाऽन्वियात्, तन्निष्ठप्रतियोगित्वे वा तदभावे वा ? आद्ये अस्तित्वनास्तित्वाभ्यां तथावक्तव्यत्वस्य प्रसिद्धौ कथं तदभावः ? अप्रसिद्धौ प्रतियोग्यप्रसिद्ध्या सुतरां तदभावाप्रसिद्धिः ।
द्वितीये तादृशनिमित्तस्य समानाधिकरणधर्मविधया प्रतियोगितावच्छेदकत्वं व्यधिकरणधर्मविधया वा ? आद्यस्तावदसम्भवग्रस्तः । नहि स्वद्रव्यादि परद्रव्यादि च युगपदर्पितं तन्निमित्तकं वा युगपदर्पितसत्त्वासत्त्वद्वयं वक्तव्यत्यवृत्ति । धर्म्यभेदमाश्रित्य तथाऽभ्युपगमे वा तेन रूपेण वक्तव्यत्वस्य प्रतीतिः क्वचिदवश्यमभ्युपगन्तव्या स्यात् । यदूपेण हि यत् क्वचिदपि प्रतीयते तद्रूपस्यैव समानाधिकरणधर्मता ि वस्तुस्थितिः । एवं च कथं तथावक्तव्यत्वाभावः ?
द्वितीये, किमस्तित्वनास्तित्वयोर्युगपदर्पितयोर्व्यधिकरणत्वं तन्निमित्तयोर्वा ? आद्ये केवलमप्यस्तित्वं नास्तित्वं वा वक्तव्यत्वात्मकप्रतियोग्यवृत्तित्वाद् व्यधिकरणमेव । यद्यपि वक्तव्यत्वेऽपि वक्तव्यत्वेन रूपेणाऽस्तित्वं तदन्यरूपेण च नास्तित्वं वर्तते, तथाऽपि प्रक्रान्तमस्तित्वं नास्तित्वं च घटादिगतं तत्र नाऽस्ति । एवं चाऽस्तित्वादिप्रत्येकधर्मेणाऽपि वक्तव्यत्वाभावमाश्रित्य तुरीयभङ्गस्योपपत्तौ युगपदर्पणकल्पना न चतुरस्रा स्यात् । एतेन द्वितीयोऽपि प्रत्युक्तः ।
तृतीयोऽप्यसम्भवादेव निरस्तः । यो हि स्वरूपतः प्रसिद्धो भवति तस्यैव क्वचिदधिकरणे सत्त्वोपपादनायाऽवच्छेदकभेदकल्पनोपयुज्यते । वक्तव्यत्वाभावश्च स्वरूपत एवाऽप्रसिद्धः कथमवच्छेदकसम्बन्धितामासादयेत् ? अस्तु वाऽवक्तव्यत्वं यत्किञ्चित्, तत्प्रतिपादको यथा तुरीयभङ्गः, तथा वक्तव्यत्वमप्यस्तित्वादिप्रत्येकनिमित्तापेक्षयाऽस्तीति तत्प्रतिपादकोऽप्यपरो भङ्गः स्वीकर्तव्यः स्यात् । न हि यदेवाऽस्तित्वं नास्तित्वं वा तदेव वक्तव्यत्वम् । वक्तव्यत्वं हि वचनप्रतिपाद्यत्वम् । तदवच्छेदकं च रूपं घटत्वास्तित्वादिकम् । न चाऽवच्छेद्यावच्छेदकयोः सर्वथाऽभेदो भवतामनुमतः । तथा सति यदेव घटत्वं तदेवाऽस्तित्वमिति तत्प्रतिपादकः प्रथमभङ्गोऽपि न स्यात् । एवं चाऽवच्छेदकेन सह कथञ्चिद्भेदमाश्रित्याऽस्तित्वादेः प्रतिपादका भङ्गा यथाऽभ्युपगम्यन्ते तथा वक्तव्यत्वप्रतिपादकोऽपि भङ्ग कथं नाऽऽद्रियते ?
न च वक्तव्यत्वावक्तव्यत्वधर्मकल्पनया स्याद्वक्तव्य एव घटः स्यादवक्तव्य एव घट इत्यादिसप्तभङ्ग्यां वक्तव्यत्वप्रतिपादकोऽपि भङ्गः स्वीक्रियते । अत्र त्वस्तित्वनास्तित्वादिधर्माणामेव प्रस्तावः । अतोऽप्रस्तावाद् वक्तव्यत्वप्रतिपादको भङ्गो नाऽऽद्रियत इति वाच्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org