________________
सप्तभडीप्रभा
२७
निमित्तावेदकत्वं, तथाऽपि विनिगमनाविरहाद् द्वयोरेव प्रत्येकधर्मापेक्षानिमित्तयोविशिष्टनिमित्तत्वं वाच्यम् । तत्र चाऽपेक्षानिमित्ततावच्छेदकं तदुभयत्वं, तच्च न सम्भवति, स्वद्रव्यादीनां परद्रव्यादीनां च विरुद्धानामेकविशिष्टापरत्वरूपोभयत्वाभावात् ।
न चोभयावच्छेदेन विशेषणं विशेष्यं वा वर्तते, ताभ्यां च निष्पद्यमानं रूपं विशिष्टं कथं तथा वर्तेत ? नाऽप्यन्यतरत्वान्यतमत्वादि निमित्ततावच्छेदकम् । भावाभावयोरेकत्रोपपत्त्यर्थमवच्छेदकभेदाश्रयणं, न त्वन्यथा । विशिष्टं च यदोक्तान्यतरत्वान्यतमत्वादिविशिष्टावच्छेदेन वर्त्तते तदा तदवच्छेदकमध्ये जगत एव प्रवेशात् तदन्यस्याऽपेक्षानिमित्तस्य कस्यचिदभावाद् विशिष्टस्वरूपधर्माभावस्तदधिकरणे न कथञ्चिद् वर्तेत । एवं च व्यथैव विशिष्टस्याऽवच्छेदककल्पना प्रसज्येत । न चैवमेव न्याय्यम् । तथा सति तस्य व्यापकत्वाद्यापत्त्या घटाद्यसाधारणरूपता न स्यात् । अस्तु वाऽपेक्षानिमित्तं तस्य यत्किञ्चित्, किन्त्वेकान्तवादापत्तिभिया तदभावोऽपि तत्राऽवश्यं स्वीकरणीयः ।
न च तस्य क्लृप्तेषु षट्सु धर्मेष्वन्तर्भावः, प्रथमद्वितीयभङ्गप्रतिपाद्ययोरस्तित्वनास्तित्वयोर्विशेषणविशेष्यभावमापन्नयोस्तदुपपादकतया तदभावरूपत्वासम्भवात् । नहि यो यस्य विरोधी स तस्योपपादकः क्वचिद् दृष्टः । चतुर्थभङ्गप्रतिपाद्यं त्ववक्तव्यत्वं यथा नाऽस्तित्वनास्तित्वयोरभावरूपम्, अस्तित्वनिषेधरूपत्वे नास्तित्वात्मकत्वे, नास्तित्वनिषेधरूपत्वेऽस्तित्वात्मकत्वे पर्यवसानप्रसङ्गात् । यथा न विशिष्टरूपधर्मान्तरनिषेधरूपं, तथा सति भावाभावयोः परस्परविरहरूपत्वेन विशिष्टस्याऽवक्त्रव्यत्वाभावरूपवक्तव्यत्वात्मकत्वं स्यात् । तथा च विशिष्टेनैव धर्मेण वस्तु वक्तव्यं स्यात्, नास्तित्वादिना प्रत्येकधर्मेण । न चैतदिष्टम् । तस्माद् वक्तव्यत्वस्य विशेष एव विशिष्टो धर्मः, न तु वक्तव्यत्वसामान्यम् । एवं च वक्तव्यत्वसामान्यस्याऽभावरूपमवक्तव्यत्वं कथं यत्किञ्चिविशेषमात्रप्रतियोगिकाभावरूपं वक्तुं शक्यम् ?
__ एवमेव पञ्चमादिविकल्पविषया अपि धर्मा नोक्तविशिष्टस्याऽभावरूपा इत्यतिरिक्तस्य विशिष्टाभावस्य सिद्धौ तत्प्रतिपादकोऽपि भो वाच्यः । एवं तस्याऽपि प्रत्येकधर्मेण सह साहचर्यमवलम्ब्य निष्पद्यमानानेकधर्मप्रतिपादकानि भङ्गान्तराणि वाच्यानि । विशिष्टस्याऽपि च धर्मान्तरस्य धर्मान्तरेण सह साहचर्यमाश्रित्य धर्मान्तराणां प्रसक्तौ भङ्गान्तराणामप्यापत्तेः । एते च दोषाः पञ्चमषष्ठसप्तमभङ्गविषयानप्यास्कन्दन्तो न तेभ्योऽप्यपसारयितुं शक्याः, तस्मान्न तृतीयभङ्गोऽप्युपपत्तिपद्धतिमवलम्बते ।।
मूलीभूताद्यद्वितीयभङ्गविषयधर्मोन्मूलनोन्मूलितविषयोऽपि तुरीयभङ्गः पञ्चमषष्ठसप्तमभङ्गसूत्रण-सूत्रधारोऽधिकार्थासंस्पर्शान्नोपपद्यते । तथा हि - अस्तित्वनास्तित्वापेक्षानिमित्तयोर्युगपदर्पणात् प्राधान्येन युगपदdमाणयोरस्तित्वनास्तित्वयोस्तथावबोधकशब्दाभावात् स्यादवक्तव्य एव इति चतुर्थभङ्ग उरीक्रियते | तस्य विषयो वक्तव्यः ।
ननु किमत्र वक्तव्यम् ? यथा घट इत्युक्ते घटशब्दस्य प्रवृत्तिनिमित्तं घटत्वं विहितं भवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org