________________
२६
सप्तभङ्गीप्रभा
त्वादीनामपि धर्मान्तराणां सम्भवेन तत्प्रतिपादका अपि भङ्गा वक्तव्याः स्युरिति न सप्तभङ्गी व्यवस्थिता स्यात् । न चाऽस्तित्वविशिष्टनास्तित्वस्याऽवगमे नास्तित्वविशिष्टास्तित्वमप्यवगतमेव, तयोस्तुल्यवित्तिवेद्यत्वात् ।
न चाऽवगतस्यैवाऽवगमाय शब्दव्यापारो युक्त इति वाच्यम् ।
विशिष्टानामन्योन्यविलक्षणरूपाणां समानवित्तिवेद्यत्वे मानाभावात्, तेषां स्वरूपत एव वैलक्षण्यस्येदानीमाश्रितत्वात् । स्वस्वघटकपदार्थविशेषणविशेष्यभावभेदप्रयुक्तवैलक्षण्यमप्यत्र स्फुटमेव । यतः प्रथमे विशिष्टेऽस्तित्वं विशेषणं, नास्तित्वं विशेष्यं, द्वितीये च विशिष्टे नास्तित्वं विशेषणं, विशेष्यमस्तित्वमिति । किञ्च, विशिष्टस्य धर्मान्तरस्य तृतीयभङ्गविषयत्वे तदपेक्षानिमित्तमपि प्रथमद्वितीयभङ्गविषयधर्मापेक्षानिमित्ताभ्यामन्यदेव वाच्यम् ।
न चाऽस्तित्वनास्तित्वयोर्विधिनिषेधरूपत्वेनैकावच्छेदेनैकाधिकरणवृत्तित्वाभावरूपविरोधास्पदत्वेन नाऽपेक्षानिमित्तभेदमन्तरेणैकत्रोपदर्शनसम्भव इति प्रथमद्वितीयभङ्गयोरपेक्षानिमित्तभेदाश्रयणं युक्तं, प्रत्येकापेक्षानिमित्ताभ्यां च वैशिष्टयस्योपपत्तेर्न तदतिरिक्तस्याऽपेक्षानिमित्तस्य कृत्यं किञ्चिदस्ति तृतीयभने इति वाच्यम् ।
धर्मद्वयापेक्षानिमित्तयोस्तयोः सामानाधिकरण्यरूपवैशिष्ट्यसम्पादनद्वारा विशिष्टस्वरूपसम्पादन एवोपक्षीणत्वमिति विशिष्टं च धर्मान्तरं धर्मिणि सर्वथा मा प्रापदेकान्तत्वकवलितमित्यवश्यं निमित्तान्तरस्य वक्तव्यत्वात् ।
न चैतदनुरोधेन तृतीयेऽपि भङ्गे स्यात्पदं प्रयुज्यत एवेति वाच्यम् ।
को ह्येवमाह - न प्रयुज्यत इति ? किन्तु यत् प्रयुज्यते तद्विशेषणविशेष्ययोवैशिष्ट्यसम्पादनार्थमेव । अन्यथा तस्य विशिष्टरूपधर्मान्तरस्य यद्धर्मिण्यवस्थानं तन्निमित्तसमर्पकत्वेऽपेक्षानिमित्तविनिर्मुक्तयोरस्तित्वनास्तित्वयोर्विरुद्धत्वेन वैशिष्ट्यानुपपत्त्या विशिष्टस्य स्वरूपतोऽसिद्धौ विधानानुपपत्तिरेव स्यात् । यदि च विशेषणस्य यदपेक्षानिमित्तं विशेष्यस्य वा यदपेक्षानिमित्तं तदेव विशिष्टस्याऽप्यर्थान्तरस्याऽपेक्षानिमित्तमनन्यगत्या स्वीक्रियते, तर्हि तदवबोधनायाऽप्यपरं स्यात्पदं तत्र प्रयोक्तव्यं स्यात् ।
न च, प्रयुज्यत एव स्यादस्ति स्यान्नास्ति चेत्येवंरूपे तृतीयभङ्गे स्यात्पदद्वयम् । तत्रैकं स्यात्पदमस्तित्वनास्तित्वयोः सामानाधिकरण्योपपादकमपेक्षानिमित्तं द्योतयति, द्वितीयं तु विशिष्टस्य धर्मिवृत्तित्वनिमित्तमिति नोक्तदोषकदर्थनेति वाच्यम् ।
अस्तिपदसमभिव्याहृतं हि स्यात्पदं यदपेक्षयाऽस्तित्वं तमेव वोधयितुं पर्याप्तमेव, नास्तिपदसमभिव्याहृतं च नास्तित्वनिमित्तमेवेति ताभ्यां स्यात्पदाभ्यां सामानाधिकरण्योपपादकमेव निमित्तद्वयमावेदितं भवति । अस्तु वा यथाकथञ्चिदेकस्य सामानाधिकरण्यनिमित्तावेदकत्वमपरस्य च स्यात्पदस्य विशिष्टापेक्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org