________________
सप्तभङ्गीप्रभा
२५
प्राधान्यस्य, प्रकारतानात्मकविशेष्यतारूपस्य च विशेष्यगतस्य प्राधान्यस्याऽभाव एव स्यात् । एवं नास्तित्वस्याऽप्यस्तित्वविशेषणत्वे बोध्यम् ।
न च, प्रथमद्वितीयभाभ्यामीदृशप्राधान्यमाश्रित्य तृतीयभङ्गस्य विशेषो नाऽभ्युपगम्यते, किन्तु प्रथमभङ्गेऽपेक्षानिमित्तोपादानमाहात्म्याद नास्तित्वं द्वितीयभङ्गे च तत एवाऽस्तित्वमर्थतोऽवगम्यतेऽतो गौणता, अत्र तु शब्दत एव तयोः प्रतीतिरिति प्राधान्यमिति वाच्यम् ।
एवं सति भङ्गद्वयसमाहाररूपोऽयं तृतीयभङ्ग इत्युक्तं स्यात् । तथा च सति तृतीयभङ्गस्याऽप्यस्योक्तभङ्गाभ्यां सह समाहारमाश्रित्य तत्समाहाररूपो भोऽधिकः किं नाऽऽश्रीयते ? एवं भङ्गान्तराणामपि भङ्गान्तरैः सह समाहारमाश्रित्याऽपरे भङ्गाः किं नाऽभ्युपगम्यन्ते ? नन्वभ्युपगम्यन्ते एव स्यादस्ति स्यादवक्तव्यश्चेत्यादयो भङ्गास्तथाभूता इति चेत्, समाहारस्वरूपाणां तेषां भङ्गान्तरैः सह समाहारमाश्रित्य समाहारान्तरूपा अपि भङ्गा अङ्गीकरणीयाः प्रसज्येरन् । एवं कण्ठरवेणैव सप्तभङ्गसमाहाररूपा सप्तभङ्गी स्वीक्रियते, न च सा भङ्गत्वेन पुनराश्रीयत इत्यत्र रुचिरेव भवतः प्रमाणं स्यात् । तस्मादर्थभेदोपदर्शनमन्तरेण भङ्गद्वयसमाहारमात्रेण तृतीयभङ्गसमर्थनं न विचारचूलामवलम्वते । यत्तु विवक्षावैचित्र्यमूलकमेव भङ्गवैचित्र्यं, न त्वर्थभेदविजृम्भितं, एवं चाऽस्तित्वनास्तित्वयोरेकैकमेव विवक्षित्वा वक्त्रकैकमेव स्यादस्ति घट इति स्यान्नास्ति घट इति च प्रयुज्यते, तदुभयं क्रमार्पितं युगपदर्पितं चेत्यादि विवक्षित्वा च भङ्गान्तराणि प्रयुज्यन्ते, इति विवक्षावैचित्र्यविश्रान्तायां सप्तभङ्गयां प्रत्येकभङ्गार्थभेदान्वेषणक्लेशः क्लेशायैवेति भवति केषाञ्चिद् ऋजुमतीनामाकूतम् । तदतिमन्दम्, अर्थवैचित्र्यमन्तरेण विवक्षावैचित्र्यस्य प्रेक्षावतामनुल्लासात्, अन्यथा प्रेक्षावत्त्वक्षतेः । तथा च विवक्षावैचित्र्योपपादनार्थमर्थवैचित्र्यान्वेषणे यलः कर्तव्य एव ।
नन्वस्तित्वं द्रव्यार्थिकनयविषय इति द्रव्यार्थिकनयमारूढो वक्ता प्रथमभङ्गं प्रयुङ्क्ते, नास्तित्वं च पर्यवनयविषय इति पर्यवनयसमारूढो द्वितीयभङ्गं प्रयुङ्क्ते, नयद्वयसमारूढश्च क्रमिकधर्मद्वयविवक्षया तृतीयभङ्ग, युगपद्धर्मद्वयविवक्षया च तुरीयम्, एवमग्रेऽपीति चेत्, एवमपि तृतीयभार्थो न विभिन्नतया निरूपितः स्यात्, कारणमात्रं तु विलक्षणं प्रतिपादितं भवति । न च तत्र प्रश्नः, न च कारणभेद: शाब्दबोधविषयतामवलम्वते, येन तमादाय भेदसमर्थनं प्रकृतोपयोगि स्यात् ।
न चाऽस्तित्वविशिष्टनास्तित्वमस्तित्वनास्तित्वाभ्यां भिन्नमेव तृतीयभङ्गविषयः, विशिष्टघटकतया प्रविष्टस्याऽस्तित्वस्य विशेषणत्वं नास्तित्वस्य च विशेष्यत्वं भवतु नाम, न तावताऽपि काचित् क्षतिः, विशिष्टनिष्ठप्रकारताया विलक्षणाया एव तृतीयभङ्गजवोधनिरूपिताया अभ्युपगमात् । क्रमार्पितोभयविषयकत्वमित्यस्याऽपि विशिष्टधर्मान्तरविषयकत्व एव पर्यवसानमिति नोक्तदोषाणामवकाश इति वाच्यम् ।
एवं सत्यस्तित्वविशिष्टनास्तित्वं यथा विशिष्टात्मकतया धर्मान्तरं तथा नास्तित्वविशिष्टास्तित्वमपीति तत्प्रतिपादकमपि भङ्गान्तरं वक्तव्यम् । एवमस्तित्वविशिष्टावक्तव्यत्वादिवक्तव्यत्वविशिष्टास्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org