________________
२४
सप्तभङ्गीप्रभा
भानोपगमात् । परद्रव्यादीनां मध्ये कस्यचिदधिकरणविधया कस्यचिच्चाऽवच्छेदकविधया प्रवेश इति पक्षोऽपि न समीचीनः, परद्रव्ये घटाभावस्य व्याप्यवृत्तितया परकालाद्यवच्छेद्यत्वासम्भवात्, एवं परकालादावपि । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावविषयकत्वपक्षे कस्यचिदधिकरणस्य प्रवेशः क्रियते इति पक्षोऽपि न क्षोदक्षमः, तथाऽभ्युपगमे तथाभूतस्याऽभावस्य धर्म्यन्तरे सदसद्भावसंशयापत्तेः । नाऽपि कस्यचिदधिकरणस्य प्रवेशो न क्रियते इति पक्षोऽपि युक्तः, तथा सति व्यधिकरणधर्मस्याऽप्युपादानमचतुरस्त्रं स्यात् । न ह्यधिकरणविशेषानुपादाने समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावमादायाऽप्युपपद्यमानो द्वितीयभङ्गो व्यधिकरणधर्ममाकाङ्क्षति प्रतिपाद्यस्य संशयनिवृत्तये । एवमन्येऽपि द्वितीयभङ्गोपपादकाः प्रकारा निरसनीयाः ।
तृतीयभङ्गस्तु प्रत्येकं यो भवेद्दोषो द्वयोर्भावे कथं न स इति न्यायकवलित एव । तस्य क्रमार्पितास्तित्वनास्तित्वोभयविषयकत्वं यदुच्यते तत्राऽधिकतया प्रविष्टं क्रमार्पितत्वं विचारमर्हति । ननु किमत्र विचारणीयं ? प्रथमे भने प्राधान्येन केवलमस्तित्वं प्रकारतया भासते, द्वितीये प्राधान्येन नास्तित्वमेव, अस्मिंश्च तदुभयं तथा । तदुपपत्तिश्चाऽपेक्षानिमित्तयोः क्रमेणाऽर्पणात् तदुभयस्य क्रमेणाऽर्पणे सत्येव । अपेक्षानिमित्तयोस्तयोश्च युगपदर्पणे तु तथा तदभिलापकस्य कस्यचिच्छब्दस्याऽभावात् स्यादवक्तव्य एवेति चतुर्थभङ्गस्यैवाऽवकाशः स्यात्, न त्वस्य ।
विवक्षावैचित्र्याच्च क्रमेणाऽर्पणं युगपदर्पणं चेति चेत्,
न, एतावता हि किं क्रमेणाऽर्पणमभिमतमायुष्मतः ? ननूक्तमपि किं नाऽवबुध्यते ? युगपत्तदभिलापकस्यैकस्य पदस्याऽभावादवक्तव्यत्वे व्यवस्थिते क्रमिकपदद्वयाभिलाप्यत्वमेव क्रमार्पितत्वम् । अनयोरपेक्षानिमित्तयोरपि क्रमार्पितत्वमेतदेव । पदयोश्च पूर्वापरीभावेन व्यवस्थितिरेव क्रम इति स्फुटमप्यर्थं कथं नाऽवधारयति प्रेक्षावानपीति चित्रमिति चेत्, एवं सति क्रमार्पितत्वं न तृतीयभङ्गप्रतिपाद्यमिति कुटिलयोक्त्या प्रतिपादितं भवता । यथा हि घट इत्युक्त्यैकत्वविशिष्टो घटः प्रतिपादितो भवति न तु तन्निष्ठं प्रतिपाद्यत्वं घट इत्युक्तेर्विषयः, तथा स्यादस्ति नास्ति चेति क्रमिकास्तिनास्तिपदाभ्यामस्तित्वं नास्तित्वं च प्रतिपादितं भवति, न तु तन्निष्ठं प्रतिपाद्यत्वं तस्य विषयः ।
क्वचित् तथाऽपि किं न स्यादिति नाऽऽशक्यम्, शब्दात् प्रतिपत्तौ सत्यां प्रतिपत्तिविषयत्वरूपं प्रतिपाद्यत्वम्, तत्त्वे च सति तेन रूपेण प्रतिपत्तिरित्यन्योन्याश्रयापत्तेः । यत्तु ज्ञानस्य स्वप्रकाशत्वाज्ज्ञाने भासमाने तद्विषयत्वमपि भासत इति नाऽन्योन्याश्रय इति, तत्तुच्छम्, ईदृशविषयत्वभानस्य ज्ञानसामान्यसामग्रीप्रयोज्यत्वेन शब्दाप्रयोज्यतया तदादाय प्रतिपाद्यत्वे शब्दविषयत्वोपपादनस्याऽयुक्तत्वात् ।
ननु विशेष्यविशेषणभाव एवाऽस्तित्वनास्तित्वयोः क्रमार्पितत्वम् । न च प्रथमद्वितीयभङ्गयोस्तयोविशेष्यविशेषणभावो भासते इति चेत्,
न, एवं सत्यस्तित्वस्य नास्तित्वविशेषणत्वे प्रकारतावच्छेदकतानात्मकप्रकारतारूपस्य प्रकारगतस्य
Jain Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org