________________
भङ्गभ
सर्वेरेव व्यधिकरणधर्मे सर्वेरेव सम्बन्धैरवच्छिद्यन्तामित्यादिनाऽन्यत्रैकस्या अपि व्यधिकरणधर्मावच्छिन्नप्रतियोगितायाः सर्वव्यधिकरणधर्मावच्छिन्नत्वस्याऽङ्गीकरणात् ।
२३
युक्तं चैतत् । न ह्यवच्छेदकभेदेऽपि प्रतियोगिभेदोऽधिकरणभेदो वोक्ताभावस्याऽनुभूयत इति । यदा तु समनियतानामभावानामैक्यमिति पक्ष आश्रीयते तदा व्यधिकरणधर्मावच्छिन्नप्रतियोगिताको घटाभावस्तथाविधश्च पटाभावोऽभिन्न एवेति द्वितीयभङ्गप्रतिपाद्यो धर्मो न घटमात्राश्रित इति तन्मात्राश्रितधर्मनिकुरम्वप्रतिपादके सप्तभङ्गीवाक्ये न तदर्थकभङ्गप्रवेशो युक्तः । एतेन परद्रव्यक्षेत्रकालानां यथासम्भवमभावस्याऽधिकरणविधयाऽवच्छेदकविधया चाऽपेक्षानिमित्तत्वमाश्रित्य द्वितीयभङ्गे प्रवेशः, परभावस्य तु प्रतियोगितावच्छेदकतया प्रवेश इत्येवमर्धजरतीयाभ्युपगमोऽप्यपास्तः, व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य व्याप्यवृत्तितया देशविधया कालविधया वा किञ्चिदवच्छिन्नत्वासम्भवात् तत्प्रतियोगिताया अप तथैव तदवच्छिन्नत्वासम्भवाच्च । न हि भवति घटः परद्रव्याद्यपेक्षयाऽभावप्रतियोगीति कस्याऽप्यनुभवः । यदि च परद्रव्यादीनामवच्छेदकादिविधया यदा प्रवेशस्तदा व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावो द्वितीयभङ्गविषयतया नाऽऽश्रीयते किन्तु समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव एव ।
यदा च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावो द्वितीयभङ्गविषयतयाऽऽद्रियते तदा न परद्रव्यादीनां तथा प्रवेश इत्यभ्युपगमे नोक्तदोष इति विभाव्यते तदा परद्रव्यादीनां सर्वेषां किमवच्छेदकविधयैव प्रवेश उत कस्यचिदधिकरणविधया कस्यचिच्चाऽवच्छेदकविधया ? समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावविषयकत्वपक्षे, व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावविषयकत्वपक्षेऽपि कस्यचिदधिकरणस्य प्रवेशोऽस्ति न वेति च वक्तव्यम् । तत्र परद्रव्यादीनां सर्वेषामच्छेदकविधया प्रवेशे स्वद्रव्यादिकं किञ्चिदधिकरणविधया निविशते न वा ?
आद्ये, प्रथमभङ्गे तस्य तथाभूतस्य तृतीयान्तस्ववाचकशब्दमहिम्नैव विषयत्वमिति द्वितीयभङ्गेऽपि तथैव स्यात् । एवं च स्वद्रव्यादिना स्वस्वभावेन परद्रव्यादिना च घटो नास्त्येवेति द्वितीयभङ्गः प्राप्तः, न चैवमभ्युपगम्यते, नाऽप्यनुभूयते । यदि तु स्वद्रव्यादिकमधिकरणं स्वस्वभावरूपश्चाऽवच्छेदकः स्वस्वाभिधायकशब्दमन्तरेणाऽप्यर्थाद् गम्यत इति न तदभिधायकशब्दप्रवेशो द्वितीयभङ्गे, तर्हि प्रथमभङ्गेऽपि तत्प्रवेशस्तथैव न कर्तव्यः स्यात् । न चेयमनुभवपथातीता कल्पना युक्तिमार्गमुपयाति, तत्सम्बन्धिन एव तन्निष्ठधर्मावच्छेदकत्वेन परद्रव्यादीनां स्वद्रव्यादेरसम्वन्धित्वेन तन्निष्ठाभावावच्छेदकत्वासम्भवात् । स्वीक्रियेताऽपि च साक्षात् क्लृप्तसम्बन्धासम्बन्धिनोऽप्यक्लृप्तेन केनचित् सम्वन्धेन वैज्ञानिकसम्वन्धेन वा परम्परासम्बन्धेन वा सम्बन्धित्वमभ्युपेत्याऽवच्छेदकत्वं यदि तथाऽनुभवोऽविगानेन प्रतीतः स्यात्, न चैवम् ।
नाऽपि द्वितीयः, अनधिकरणकनिषेधप्रतीतेरसम्भवात् भावे वा सम्भवे वा तत्र देशादिविधयाऽवच्छेदकभानस्याऽनुभवातीतत्वात्, भावाभावयोरेकस्मिन्नधिकरणे प्रतीत्योः सामञ्जस्यार्थमेवाऽवच्छेदकभेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org