________________
सप्तभङ्गीप्रभा
न वेत्याकारकः, षष्ठभङ्गोत्थापकश्च स्यान्नास्ति अवक्तव्यो न वेत्याकारकः, एते सर्वेऽपि संशयाः सप्तमभङ्गजन्यवोधेन निवर्तन्त एव । अस्तु वा सप्तमोऽपि भङ्गो न स्वतन्त्रः । प्रथमद्वितीयचतुर्थभङ्गसमाहाररूपा त्रिभङ्गन्येव तत्कार्यकारिणी । सप्तानां भङ्गानां प्रत्येकं तत्तत्प्रश्नवशादभ्युपगमेऽपि तत्समाहाररूपा सप्तभङ्गी समुच्चयबोधजनिका महावाक्यतया भवताऽप्यभ्युपगता, तत्स्थाने एकत्र द्वयमिति रीत्या बोधस्य नानाधर्मनिष्ठ प्रकारतानिरूपितैकनिष्ठविशेष्यतानिरूपकस्य जनिका त्रिभङ्गी स्वीक्रियताम् । किञ्चाऽस्तित्वनास्तित्वयोः क्रमार्पणं युगपदर्पणं चैकदैवाऽऽश्रित्य पञ्चमादिभङ्गप्रवृत्तिर्नाऽन्यथा । कथं चैतत् सङ्गतं, समानविषयकयोः क्रमार्पणयुगपदर्पणयोरेकपुरुषापेक्षया समानकालीनत्चे प्रमाणाभावात्? इति पूर्वपक्षसक्षेपः ।
अत्रोच्यते - यद्यपि सप्तभङ्गीप्रतिपाद्याः सत्त्वादयः सप्ताऽपि धर्मा यथायथं तीर्थान्तरीयैरप्यभ्युपगताः, तथा हि -
“असदकरणादुपादान-ग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात्, कारणभावाच्च सत्कार्यम् ।।१।। इतीश्वरकृष्णोक्तहेतुनिकुरम्वमवलम्व्य कारणव्यापारात् प्रागपि कार्यस्य सत्त्वमित्यभ्युपगच्छन्त उत्पत्तिस्थाने आविर्भावं ध्वंसस्थाने तिरोभावं चाऽऽश्रयन्तः कार्यकदम्वकस्याऽपि सर्वदा सत्त्वमभ्युपगच्छन्ति कपिलमतरहस्यविदस्तदनुसारिणः, पातञ्जलदर्शननिष्णाताश्च ।
- “वुद्ध्या विविच्यमानानां, स्वभावो नाऽवधार्यते ।
अतो निरभिलप्यास्ते, निःस्वभावाश्च देशिताः ।।१।।" इत्यादिकारिकोक्तयुक्तिप्रकरमवलम्बमाना घटपटादिव्यवहारस्य च सांवृतसत्त्वमभ्युपगम्योपपादयन्तोऽशेषस्य जगतोऽलीकत्वानुपाख्यत्वविचारासहत्वाद्यभिधेयं शून्यत्वाख्यमसत्त्वमुरीकुर्वन्ति सौगतप्रधानाः शून्यवादिनो माध्यमिकाः, वाह्यमात्रस्य चाऽसत्त्वमभ्युपगच्छन्ति विज्ञानवादिनो योगाचाराः, धर्ममात्रस्याऽतद्व्यावृत्तिरूपत्वेनाऽसत्त्वमेवेति स्वीकृतवन्तौ सौत्रान्तिक-वैभाषिको । अशेषस्य जगतः सत्त्वमेवाऽसत्त्वमेवेत्युभयत्र दोषजालमुपढौकयन्तः कारणव्यापारात् प्रागसत्त्वम्, तदनन्तरं च सत्त्वं ध्वंसानन्तरं च पुनरसत्त्वमित्येकाधिकरणगततया नित्यानां च परमाण्वादीनां सर्वदा सत्त्वमनित्यानां च घटपटादीनां तद्विपर्ययरूपमसत्त्वमिति भिन्नाधिकरणगततया वा सत्त्वे सत्यसत्त्वमभ्युगच्छन्ति कणभक्षपक्षपक्षपाताकृप्टमानसा वैशेषिकास्तत्समानतन्त्राश्चाऽक्षपादपादोपजीविनः । अन्येऽपि च जैमिनीयप्रभृतयः स्वस्वाभ्युपगमानुसारेण सत्त्वे सत्यसत्त्वमेवाऽभ्युपगच्छन्त्यशेषस्य जगतः । प्रपञ्चस्य पारमार्थिकसत्त्वे वेदान्तोत्थज्ञानबाध्यत्वं न स्यात् । शशशृङ्गादिवदसत्त्वे च तद्वदेव व्यवहारवीथीसञ्चरिष्णुत्वं न स्यात् । अतो न सत्त्वं नाऽप्यसत्त्वं, किन्तु सत्त्वासत्त्वाभ्यां वक्तुमशक्यत्वाद-निर्वचनीयतापरपर्यायमवक्तव्यत्वमेव शरणीकुर्वन्ति युक्तिमार्गविशारदा औपनिषदाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org