________________
[है० ५.२.१४.] द्वादशः सर्गः।
६७ क्षेपद्योतको वा । जघान च तथा शश्वद्रुभुजे भक्षितवांश्च । यथा वा स प्रसिद्धः खरो नाम राक्षसः। इतिहेति निपातसमुदायः प्रवादपारम्पर्ये । लोकान्न्यहञ् शश्वदभुत च ।। किमवेत्त्वमेतत्स्मरसीश यस्यामितिहापठामोपगुरु त्रिवेदीम् । सरसीह शश्वन्यवसाम यस्यां रजनीचरैापि सरस्वती सा॥८॥
८. हे ईश एतत्त्वं किमवेदज्ञासीः । यत्सा सरस्वती नदी रजनीचरैयापि । स्मरसि यस्यामुपगुरूपाध्यायसमीपे त्रिवेदी त्रीन्वेदानितिह गुर्वान्नायेनापठाम त्वं वयं चाधीतवन्तस्तथा स्मरसि यस्यामिह गुरुसमीपे शश्वन्यवसामोषिताः ॥ निचकार विप्रालवणः । अत्र “परोक्ष" [१२] इति परोक्षा ॥
इतिह न्यहँन् । ह जघान । शश्वदभुत । शश्वहुभुजे ॥ प्रच्छये । किमवेत्वमेतत् । किं न विवेदिथैनम् । अन्न "हशश्वद्" [१३] इत्यादिना ह्यस्तनी ॥ परोक्षे वेत्येव कृते भूतान/तनमात्रभाविन्या ह्यस्तैन्याः पक्षे सिद्धौ ह्यस्तनीविधानं स्मृत्यर्थयोगेपि ह्यस्तन्येव यथा स्यान्न भविष्यन्त्येवमर्थम् । तेन सरसीश यस्यामितिहापठाम । स्मरसीहे शश्वन्यवसाम ॥ अवसच दुर्वासऋषिः स यस्मिन्स पुरा न्यवात्सीदथ मण्डुसूनुः । अवसन्पुरान्येप्युषयो वनं तदलितं तदा कश्चन न ह्यरक्षीत् ॥९॥ ___९. स्पष्टम् । किं तु तद्वनं सरस्वतीतटस्थ आश्रमविशेषः। तदा दलनकाले ॥
१ए पयोद्यो'. २ डी सिद्धो ख. ३ ए तिनिपा. ४ डी पारः पर्ये. ५ डी कान्नन्यहीं. ६ डी किवमेद°. ७ बी क्षेति. ८ डी °ह ज. ९ए डी जे ॥ प्राच्य । कि. १० ए सी डी धनतमा . ११ डी विना ह्य', १२ सी डी स्तनीवि . १३ ए नं सत्य. १४ सी डीह सव'. १५ सी डी स्पष्टः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org