SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [जयसिंहः] पीतवन्तस्तथा यासु ह्योद्य च चो वार्थो ह्य इत्यतो ज्ञेयः। अद्य कल्पे वा निरभुक्ष्महि निश्चितं भुक्ताः ॥ अवोचन् । इत्यत्र "अद्यतनी" [४] इत्यद्यतनी ॥ अगमाम याः। पयांस्यपाम । व्यामिश्रे । अद्य ह्यश्च निरभुक्ष्महि । इत्यत्र "विशेषा०" [५] इत्यादिनाद्यतनी ॥ भयवानिहावात्समिहावसं चैत्यवंदन्मिथः प्रश्न उपावशेषे । अविषुप्तसुप्ता बटवो यदेषामरुणत्क्षपाटाधिपतिः प्रचारम् ॥ ४ ॥ ४. यद्यस्माद्ये (दे)षां बटूनां प्रचार प्रसरं क्षपाटाधिपती राक्षसेश्वरोरुणटुंद्धवांस्तस्माद्धेतोरुषावशेषे रात्रेश्चतुर्थे यामेविषुप्तसुप्ता द्वन्द्वे अवस्कन्दभयेन केचिदविषुप्ता अतिनिद्रालुत्वाञ्च केचित्सुप्ता बटवो मिथः प्रश्ने । क्व भवानुपित इति पृच्छायां सत्यवदन् । किमित्याह । भयवान्क्षपाटेभ्यो भीतः सन्नहमिह स्थानेवात्समुषितस्तथाहमिहावसं चेति । अविषुप्ता इहावात्समित्यवदन्सुप्तास्त्विहावसमित्यर्वेदन्नित्यर्थः । एतेनैषां वैयाकरणरूपतोक्ता । एतद्रोधे च क्षपाटाधिपतेर्महापापिता सूचिता । बटूनां बहुत्वेपि भयवानिहावात्समित्यादावेकवचनमेकैकस्य वासापेक्षया ॥ इहावात्सम् । अत्र "रात्री०" [६] इत्यादिनाद्यतनी ॥ राज्यन्तयामे तु मुहूर्तमपि स्वापे ह्यस्तन्येव । इहावसम् ॥ अवदन् । इत्यत्र “अनद्यतने ह्यस्तनी" [७] ॥ इति शस्तनी ॥ १ ए समहा. २ वी त्यदवन्मि°. ३ ए °वचन्मि. १ ए यास्तु ह्मोद्य. २ डी सु त्वौद्य. ३ ए यों ह्म इ. ४ ए व्यानिमि. ५ वी निरुभु. ६ ए द्रुह्नवां. ७ सी डी वांसतस्मा . ८ ए °न्दचये. ९ डी हमह, १० ए वन्नि. ११ ए द्रोध च. १२ ए सी डी नी । अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy