________________
[ है० ५.२.४.] द्वादशः सर्गः।
६३ स तथेयुषेनाशुष आश्वदत्त द्रविणान्यनूचानकुलाय वीरः । न यथाभ्यगाद्याचितुमन्ववग्वा न यथा यौँ नाश तदन्यगेहे २
२. वीरो दानवीरः स जयसिंहोनूचानकुलीयानूचानाः साङ्गे प्रवचनेधीतिनस्तेषां वृन्दाय तथा बाहुल्येनाशु यात्रायाः प्रागेव द्रविणान्यदत्त । यतोनाशुषे व्रतनिष्ठत्वाद्यत्र तत्र शूद्रादिगृहेभुक्तवते निस्वत्वाद्भोजनरहिताय वा । तँथेयुषे याचितुं दूरदेशादागताय । यथा तदनूचानकुलमन्यगेहे जयसिंहगेहादन्यस्मिनं गेहे याचितुं नाभ्यगात् । यथान्यगेहे याचितुं नान्ववग्वा देहीति नावोचच्च यथान्यगेहे नौश वो नाभुक्त च ॥
ईयुषे । अनाशुषे । अनूचान । इत्येते "वेयिवद्०" [३] इत्यादिना वा निपात्याः ॥ वावचनात्पक्षेद्यतन्यादयोपि । अभ्यगात् । नाश । अन्ववक् ॥ . ऋषयोन्यदाभ्येत्य तमित्यवोचत्रगमाम या यासु पयांस्यपाम । निरभुक्ष्महि ह्योद्य च यातुधाना उपर्दुद्रुवुस्तास्तव सत्रशालाः॥३॥
३. अन्यदा ऋषयस्तं जयसिंहमभ्येत्येतीदमवोचैन् । यथा राजस्ताः सत्रशालाः सत्राय सदादानाय गृहाणि यातुधाना राक्षसा उपदुद्रुवुर्बभक्षुर्या वयमगमाम तथा यासु वयं पयांसि दुग्धान्यपाम
१ ए नांशु. २ डी वीराः । न. ३ ए मन्नव. डी °मन्वेव. ४ डी था श्र त°. ५ ए ना, त°. सी नाशु त°. ६ बी निरुभु. ७ सी दुदुवु. ८ ए सीडी त्रसाला:.
। १ ए सी डी °रः ज. २ ए लाद्यानूनाचाना सा. ३ सी नूचामासा. डी नूनावा सा. ४ बी याञ्चायाः. ५ बी व सूद्रा. ६ वी निश्वत्वा. ७ ए तथोयु. ८ डी दूरेदे. ९ बी °न् गृहे . १० ए नाशिवान्नाभु ११ डी शचाशवन्वाभु. १२ सी वान्नाभु. १३ डी °चत् । य°. १४ ए सी डी त्रसालाः. १५ ए °दुदुर्ब०. सी दुदुवु. १६ ए वर्ष प०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org