SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये द्वादशः सर्गः । स्मृतिमेष शुश्राव यशोशृणोत्स्वं निषसाद नीतौ व्यपदन्न जातु । शममध्युवासोपगुरु न्यवात्सी दपथं बभज्वान्पपुराणशक्तिः ॥१॥ १. एष जयसिंहः पपुराणाः पूरिताः पालिता वा शक्तयः प्रभुत्वोत्साहमशक्तयो येन स तथा सन्नुपगुर्वाचार्यसमीपे न्यवात्सीद्धर्मशुश्रूषयोपाविक्षत् । अत एव स्मृतिं धर्मशास्त्रं शुश्राव । अत एव च नीतौ निषसाद तस्थौ । तथा न जातु व्यषदन्महाव्यसनसंभवेपि न विषण्णोभूत् । तथा शममध्युवासाश्रितवान् । तथापथं कुमार्ग बभज्वान्निोठितवान् । अत एवं खं यशो लोकैरुद्ीयमानमशृणोत् ॥ शुश्राव । निषसाद । अध्युवास । इत्यत्र "श्रुसद०" [१] इत्यादिना परोक्षा । वाँवचनाद्यथास्वकालमद्यतनी ह्यस्तनी च । अशृणोत् । व्यषदत् । न्यवात्सीत् ॥ बभज्वान् । पपुराण । इत्यत्र "तत्र." [२] इत्यादिना वसुकानौ ॥ सर्गेस्मिन्केकिरवं छन्दः । स्यौ स्यौ केकिरवम् ॥ १ ए °षसीद, २ ए तौ विष. सी तौ वर्ष. डी तौ वयष. ३ ए मध्यवा. १ ए एच. २ ए पि निविषिण्णो'. ३ ए ग भ. ४ ए डी वान्नत. ५ ए व स्वयं य°. ६ ए सी नं । शु. ७ ए वाच. ८ ए °राण्य । इ०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy