________________
५८
व्याश्रयमहाकाव्ये
[जयसिंहः]
कृच्छ्राध्यः सेवकैः कृतमत्रैर्मुनिभिश्च प्रशस्यस्तथा सर्वदर्शनभक्तत्वात्तीर्थकृतोर्हन्तः सोमसुतश्च सोमं सुतवन्तो यज्वानश्च प्रिया यस्य स तथा ॥ सोमविक्रयी । इत्यत्र “निन्छे०" [१५९] इत्यादिना-इन् ॥ आत्मघातिनः । अत्र "हनो णिन्” [१६०] इति णिन् ॥ ब्रह्मह । भ्रूणह । वृघ्नः । अत्र “ब्रह्म०" [१६१] इत्यादिना किम् ॥
सुकृतः । पुण्यकृत् । अपापकृत् । कर्मकृत् । मन्त्रकृत् । पदकृत् । इत्यत्र "कृगः सु०" [१६२] इत्यादिना क्विम् । एभ्य एव भूते कृगः क्विबिति धातुनियमो नेष्यते । तेन तीर्थकृत् ॥ सोमसुत् । इत्यत्र "सोमात्सुगः" [१६३] इति क्विप् ॥
इत्युक्त्वैत्य नदी ब्राह्मीं सोग्निचित्कङ्कचिचिताम् । स्वर्गदृश्वाभवत्कर्णसहकृत्वेव भक्तिमान् ॥ ११५ ॥ ११५. स देवप्रसादः कर्णे भक्तिमान्सन्स्वर्गदृश्वा चिताप्रवेशेन स्वर्ग दृष्टवानभवत् । किं कृत्वा । इति पूर्वोक्तमुक्त्वा तथा ब्राह्मीं नदी सरस्वतीमेत्य कालकरणायागत्य । किंभूताम् । अग्निचिदग्निं चितवती देवप्रसादार्थमग्निसंभृतेत्यर्थः । कङ्कचित्कङ्काख्यपक्षिभेदवञ्चिता कङ्काकारेण रचितेत्यर्थः । चिता यस्यां ताम् । अतश्च तत्क्षणमेव स्वर्गगमनरूपैककार्यकरणादुत्प्रेक्ष्यते । कर्णसँहकृत्वेव कर्णसहकारीव ॥
१ए चिन्वितम्.
१ ए त्रैमुनि . २ बी निन्दे इ. ३ बी महः । भ्रू. ४ सी त्रन । अ. ५ सी डी प् । पु. ६ ए कृत । पु०. ७ सी डी °त् । म°. ८ डी सन्स्व. ९ बी मान्स्व. १० ए ककाख्य. ११ ए चिन्ता य. १२ ए सी डी प्रेक्षते. १३ बीसकृ. १४ बीर्णस्य स°.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org