SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [ है० ५.१.१५९.] ब्रह्मवादी । इत्यत्र "ब्रह्मणो वदः " [ १५६ ] इति णिन् ॥ स्थण्डिलवर्ती | हरिस्मारी । इत्यत्र “ व्रत० " [१५७ ] इत्यादिना णिन् ॥ अग्निष्टोमयाजी । इत्यत्र " करणाद् ० " [ १५८ ] इत्यादिना णिन् ॥ स सोमविक्रयि भ्रूणब्रह्महात्मघातिनः । एकादशः सर्गः ः । वर्जयन्ञ् जयसिंहोथ पितृकार्येपुणद्विजान् ॥ ११२ ॥ 9 ११२. स्पष्टः । परं सोमं सोमवल्लीरसं विक्रीतवन्त: सोमविक्रयिण एवमादिद्विजान्महापापिष्ठत्वाद्वर्जयन्नन्यान्द्विजानपूण द्भोजनादिदानैरतर्पयत् ॥ भूवृत्रघ्नोथ सुकृतः श्रुत्वा तां पुण्यकृद्गतिम् । देवप्रसादः पदकृत्तमूचे दर्शयन्सुतम् ॥ ११३ ॥ ११३. अथ सुकृतैः कृतपुण्यस्य भूवृत्रघ्नो हीन्द्रस्यें कर्णस्य तां गतिं स्वर्गप्राप्तिलक्षणां श्रुत्वा देवप्रसादस्तं जयसिंहमूचे । कीदृक्सन । पुण्यकृत्कृतधैर्मात एव पदकृदुपार्जितस्वर्गरूपस्थानस्तथा सुतमात्मीयं पुत्रं जयसिंहस्य दर्शयन् ॥ ६ ५७ यदूचे तदाह । अपापकृत्रिभुवनपाल एषोस्तु ते सुतः । कर्मकृन्मत्रकृच्छ्राघ्यैस्तीर्थकृत्सोमँसुप्रियः ॥ ११४ ॥ ११४. एप प्रत्यक्ष मत्पुत्रस्त्रिभुवनपालनामा ते सुतोस्तु । पुत्रवयं त्वया पालनीय इत्यर्थः । कीदृग् । अपापकृदत एवं कर्मकृन्मत्रपुण. बी प्रिण'. २ एसी °ति ।. ३ ए सी डी साद प० . १ ४ सुताम् ५ए 'ध्यकृस्ती ६ ए 'मस्युत्प्रि'. डी 'मस्तुतिप्र'. १ सी दिना'. ५ ए सी डी 'धर्मांत. पाल्य इ. ८ Jain Education International २ डी 'त: पु०. ३ बी महेन्द्र०. ४ ए स्य तां. ६ बी डी 'त्मीयपु०. ७ बी मा सु. ८ बी अक For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy