________________
ख्याश्रयमहाकाव्ये
[जयसिंहः]
११०. स्पष्टः । किंतु अनुयायिनि तवात्यन्तं भक्त इत्यर्थः । चारुदायी चारु यथा स्यादेवं पुरादि ददत् ॥
“अदोनन्नात्" [१५०] इत्यस्य आमात् इत्यादि प्रवृत्त्युदाहरणम् अन्नादान इति व्यावृत्त्युदाहरणोपदर्शनेनैव दर्शितं ज्ञेयं प्रवृत्तिमन्तरेण व्यावृत्तेरभावात् ॥
क्रव्याक्रव्यादशब्दौ "क्रव्यात्” [१५१] इत्यादिना साधू ॥ त्यदादि । त्यादृशान् । त्यादृक्ष । तादृशम् । तादृक्षया । तादृक् ॥ अन्य। अनन्यादृशम् । अन्यादृक्षाम् । अनन्यादृशम् ॥ समानः(न)। सदृक् । इत्यत्र "त्यदादि०" [१५२] इत्यादिना टक्सको क्विच । केचित्सकमपि टितं मन्यन्ते । सहक्षीम् ॥ मित्रभाषी । इत्यत्र “कर्तुणिन्” [१५३] इति णिन् ॥ स्निग्धदर्शी । इत्यत्र "अजीतेः शीले" [ १५४ ] इति णिन् । अजातेरिति प्रसज्यप्रतिषेधादसत्त्ववाचिनोप्युपसर्गाद्भवति । अनुयायिनि । अजातेरिति किम् । विप्रादीन् रक्षिता ॥ साधुकारी । चारुदायी । इत्यत्र “साधौ” [१५५] इति णिन् ॥
ब्रह्मवादी हरिमारी भूत्वा स्थण्डिलवर्त्यथो।
प्रापाग्निष्टोमयाजीव स पुरीं जम्भविद्विषः ॥ १११॥ १११. अथो स कर्णो जम्भविद्विष इन्द्रस्य पुरीं प्रापाग्निष्टोमयाजीव यथाग्निष्टोमेन स्वर्गफलेन यागविशेषेणेष्टवान्यजमानो जम्भविद्विषः पुरीं प्राप्नोति । कीहक्सन्सः । स्थण्डिलवर्ती स्थण्डिले मुनियोग्ये भूविशेषे व्रतादू वर्तमानो भूत्वा ब्रह्मवादी परमतत्वं वेदान्वा ब्राह्मणान्वा वदंस्तथा हरिस्मार्यभीक्ष्णं हरिं स्मरन् ।
१ ए सी डी पुरी ज.
१ ए सी डी देव पु°. २ ए सी डी °दा इ०. ३ बी व्याक्रव्या. ४ सी डी इना. ५ ए दृशन्. ६ सी डी 'न् । तादृ. ७ ए 'दृशां ता. ८ ए दृक्षम्. ९ बी अन्या. १० बी °मानं स. ११ ए सी डी न्यते । स. १२ ए सी डी क्षी॥. १३ ए जातो शी. १४ सी पुरी प्रा. १५ डी डिले व. १६ सी डी वा प. १७ ए सी डी क्ष्णं स्म°..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org