SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ [है० ५.१.१६४.] एकादशः सर्गः । राजकृत्वा राजयुध्वा सहयुध्वानमाहवे । आत्मानुजमिवापश्यत्सोब्जरभ्रातुजं नृपः ॥ ११६ ॥ ११६. स नृपो जयसिंहो भ्रातृजं त्रिभुवनपालमात्मानुजमिवात्मानमनु जातं लघुसोदर मिवापश्यदज्ञासीत् । कीदृक्सन् । अब्जटकू प्रसन्नत्वात्पद्माक्षस्तथा राजकृत्वा त्रिभुवनपालं राजानं कृतवान् । कीदृशम् । आहवे सहयुध्वानं सह जयसिंहस्य सहायीभूय युद्धवन्तम् । ननु जयसिंहो युद्धकृदेव न भविष्यति तत्कथमसौ सहध्वेत्याह । राजयुध्वा राज्ञो युद्धवान् । अन्तर्भूतण्यर्थत्वात् येोधितवान् ॥ द्विजाज्जातान्क्षत्रियजान्सोन्यानप्यनुजानिव । अब्रह्मज्यो जनान्मित्रद्दकीर्तिपटहोन्वशात् ॥ ११७ ॥ ११७. स्पष्टः । किंत्वन्यानपि वैश्यशूद्रान् । अब्रह्मज्यो न ब्रह्मणि परमज्ञाने जीनवान् हीनवान् । मित्रहो मित्राण्याकारयन् कीर्तिपटहो यस्य सः ॥ स क्ष्मां पयोधिपरिखां धरणीवराहः ५९ ५ पुंसानुजो नु भपतेर्नृपराजवार्चः । खानां जयादतिजरन्मखयज्वसुत्वा दोष्णोन्नतेन धृतवान्विजितारिवर्गः ॥ ११८ ॥ ११८. स जयसिंह उन्नतेन शत्रुविजयात्सर्वोत्तमेन दोष्णा १ एजत्वा रा. २ ए सी डी पः ॥ नृ° ३ एटज्ञोव ४ ए सी राह पुं० ५ए 'र्चः । खनां. ६ ए 'सुत्व दो'. Jain Education International १ डी राजो यु. २ डी 'ज्ञानजी' ३ एन् । मि. ४ बी मित्राहो. ५ ए सी डी 'कीर्ति. For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy