________________ 623 [है० 7.4.75.] विंशः सर्गः। तत्तस्मात्परासुवित्तं मृतस्य द्रव्यं मोक्ष्यति / तस्माद्धे पुत्रि पयसो जलस्य प्रत्येकं घटं घटमेकैकं घंटं हि स्फुटं नित्यं परलोकगतयोः पतिपुत्रयोस्तर्पणाय प्रदातुं स्थेयाः / द्रव्यापहारशङ्का मुक्त्वैतयोः परेतकार्याणि कतु तिष्ठेत्यर्थः॥ भृशे / आच्छिन्द्ध्याच्छिन्द्धीत्याच्छिदत् // आभीक्ष्ण्य(दण्ये ?) / शोचं शोचमवोचत् // अविच्छेदे / न ग्रहीता ग्रहीता / इत्यन्त्र "भृश०" [73] इत्यादिना द्विरुक्तिः // भृशादयश्व क्रियाधर्मा इति क्रियापदमेवात्र संबध्यते / क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायादृशादियोगे द्विर्वचनं स्यात् / यथा स्तोकं स्तोकं श्रद्धीयताम् / प्राक्तमबादेरिति किम् / कुरुते कुरुतेतमाम् / अत्र तमबादेरातिशयिकात्पूर्वमेव द्विर्वचनं पश्चात्तमबादिरन्यथा ह्यनियमः स्यात् // पतिपुत्रयोः पयसो घटं घटं प्रदातुम् / अत्र "नाना०" [ 73 ] इत्यादिना द्विरुक्तिः // औपच्छन्दसकम् // कुर्वत्यनिशं नमो नमस्त्वं ज्येष्ठं ज्येष्ठमनु प्रसादयीन् / कतरा कतरा त्वदीशमन्वोर्विपदेवं जनवाचि मा म रोदीः॥८॥ 80. हे पुत्र्यनिशं सदा नमो नमोधिकं नमस्कारं कुर्वती सती त्वमृषी ज्येष्ठं ज्येष्ठमनु प्रसादय ज्येष्ठानुक्रमेण मुनीन्संतोषय द्रव्यापहारशङ्का मुक्त्वा सदा गुरुसेवादिधर्मकृत्यानि कुर्वियर्थः / तथा त्वदीशसून्वोस्त्वत्पतिपुत्रयोः कतरा कतरा विपत् / आधिविपद्व्याधिव्या(वि) 1 सी स्य घटं प्रत्येकमैकं घ. 2 सी °टं स्फुटं हि नि'. ३सी च्छिन्दत् / अभी . 4 ए भीक्ष्ण / शो'. 5 सीता / इ. 6 सीत् / तथा. 7 ए 'शयका. 8 सी क्तिः / कु. ९सी मोधि'. १०सी वी त्व. ११सी शका मु. 12 सीन्बोस्वदीशपु. Jain Education International For Private & Personal Use Only www.jainelibrary.org