________________ 622 व्याश्रयमहाकाव्ये [कुमारपाल: . 77. तदा सा स्त्री अगे वृक्षे स्वमुल्लम्बयितुं प्रवृत्ता / कीहक्सती। जल्पन्ती / किमित्याह / अपुत्रः सन्यो मृतस्तस्यार्थं नृपो गृह्णातीति हेतोरर्थेपि धनेपि विषये नास्था न माशास्ति / तस्मादयि हे महापुरुष मद्धेतुका तवापि काप्यापन्मा स्म भूदिति त्वं गच्छ गच्छ / तथा कोपि श्रोष्यतीति मा जल्प मा जल्पेति // गच्छ गच्छ / मा जल्प मा जल्प / इत्यत्र “असकृत्संभ्रमे" [72] इति पदस्य वाक्यस्य च द्विरुक्तिः // उपजाति(तिः)॥ आच्छिन्याच्छिन्द्धीत्याच्छिदत्पांशमस्याः / __ शोचं शोचं तामित्यवोचच्च भूपः / राजायं तेथं न ग्रहीता ग्रहीता स्तोकं स्तोकं श्रद्धीयतां मद्वचोपि // 78 // 78. स्पष्टम् / किं तु पाशं गलबन्धनवस्त्रमाच्छिन्द्ध्याच्छिन्द्वीत्याच्छिदत् / भृशं बलात्कारेणोद्दालितवान् / शोचं शोचमभीक्ष्णं वं निदि(न्दि)त्वेत्यर्थः / अयमत्रत्यो राजा / अथ चायं प्रत्यक्षो मल्लक्षणो राजेत्यपि राज्ञा व्यञ्जितम् / न ग्रहीता ग्रहीताविच्छेदेन सदा न ग्रहीप्यति // वैश्वदेवी छन्दः॥ कुरुते कुरुतेतमां दयां यन्नृपतिर्मोक्ष्यति तत्परासुवित्तम् / स्थेयाः पतिपुत्रयोः प्रदातुं पयसः पुत्रि घटं घटं हि नित्यम् // 79 // 79. यद्यस्मान्नृपतिरत्रत्यो राजा सकलपृथ्व्याममार्याघोषणाकारिवाइयां [कुरुते] कुरुतेतमा भृशमभीक्ष्णमविच्छेदेन वात्यन्तं कुरुते / 1 ए पाशोम. 2 सी पि / पेशं. 3 ए पुत्र घ°. १ए वि ना. 2 ए मनाशा. 3 सी मारथास्ति'. 4 ए का का तवापि क्याप्या. ५ए कोप्य ओ. 6 सी वी / कु. ७ए त्वादयां. Jain Education International For Private & Personal Use Only www.jainelibrary.org