________________ [ है.७.४.३४.] विंशः सर्गः। .. स परिवढयन्परिवढिष्ठं सद्रढिमम्रदिमानमत्र भूपम् / विभवप्रथिमापहारशङ्कां क्रशयन्भूयिष्ठादभूय यत्स्वम् // 6 // 60. स मत्पति: स्वं धनं भूयिष्ठादतिबहोरपि स्वात्सकाशादभूययदनेकवणिज्यबहूचके / यतो विभवप्रथिमापहारशङ्कां क्रशयन्कशीकुर्वन् / मुञ्चन्नित्यर्थः / एतदपि कुत इत्याह / यतोत्र देशे नृपं परित्रढयन्वास्तव्यीभवनेन प्रभूकुर्वन् / किंभूतम् / सद्रढिमम्रदिमानं द्रढिम्ना प्रजारक्षासामर्थेन म्रदिम्ना च निर्लोभत्वोत्थेन सदयहृदयत्वेन सहितमत एव परिवढिष्ठमुत्कृष्टप्रभुम् // औपच्छन्दसकम् // बहयन्वधर्म वसु भावयंश्च स्थवयन्विलासान्सुखभूग्नि मग्नः / कुधियां दविष्ठो विपदा दवीयान् स निनाय भूयः समयं यवीयान् // 61 // 61. यवीयानतियुवा स मत्पतिर्भूयःसमयमतिबहुकालं निनायातिचक्राम / कीडक्सन् / कुधियां मूर्खाणां कुत्सितानां बुद्धीनां वा दविष्ठोतिदूरोत एव विपदी दवीयानतिदूरोत एव स्वधर्मं बहयन्बहूकुँवस्तथा वसु द्रव्यं भावयंश्च बहूकुर्वश्च / तथा विलासाञ् शृङ्गारचेष्टाविशेषान्स्थवयन्नुपचितीकुर्वन् / यथावसरं धर्मार्थकामान्सेवमान इत्यर्थः / अत एव च सुखभूम्नि सुखबाहुल्ये मग्नः // केकिरवं छन्दः // १बी महिमा'. 2 ए प्रतिमा. बी प्रथमा . 3 सी ययि'. १सी ढिमा प्र. 2 सी रिवृढमु. 3 बी क // ब. 4 ए दो पद'. 55 सी कुर्वस्त?. 6 बीन्स्थन्नु. 7 ए °मानासेव'. 8 सीखबा'. 9 बील्येन म Jain Education International For Private & Personal Use Only www.jainelibrary.org