________________ 608 व्याश्रयमहाकाव्ये [कुमारपाल: अस्थवीय इह सोस्थविष्ठधीः क्षोदयद्यवयदन्ययौवतम् / क्षेपयच दवयनजीजनत्स्वोपमं मयि यविष्ठ आत्मजम् // 62 // 62. स यविष्ठोतियुवा मत्पतिरिह देशे वसन् खोपममात्मतुल्यमात्मजं मय्यजीजनत् / कीहक्सन् / अस्थविष्ठधीरस्थूलबुद्धिः / दीर्घदर्शीत्यर्थः / अत एवान्ययौवतं दवयन्दूरीकुर्वन् / परदारसङ्गं वर्जयन्नित्यर्थः / कीदृशम् / अस्थवीयः कृशाङ्गम् / रूपपात्रमित्यर्थः / तथा क्षोदयद्यवयत्क्षेपयञ्चासतीत्वेन क्षुद्रानटविटादीन्यूनस्तरुणान्क्षिप्रांश्च सोद्यमानाचक्षाणम् // रथोद्धता // अक्षोदीयानहसिष्ठहर्षों विदधे क्षेपीयो महोत्सवं सः। इसिमक्षोदिमशातनं इसीय क्षोदिष्ठानामप्यथार्थदानैः 63 63. अथ पुत्रजन्मानन्तरं स मत्पतिः क्षेपीयोतिक्षिप्रं महोत्सवं विदधे / कीदृशम् / हसीयःक्षोदिष्ठानामपि ह्रसीयांसोतिह्रस्वा इ(अ)तिलघवोतिदरिद्रा इत्यर्थः / तथा क्षोदिष्ठा अतिक्षुद्रा अतिनृशंसा व्याधादयो द्वन्द्वे तेषामपि / आसतां ह्रस्वमात्राः क्षुद्रमात्राश्चेत्यप्यर्थः / अर्थदानहसिमक्षोदिमशातनं द्रव्यस्यातिबहोर्दानादतिदरिद्राणामप्यतिनृशंसानामपि च दरिद्रत्वनृशंसत्वयोर्विनाशकमित्यर्थः / यतः / कीहक्सः। क्षुद्रो दरिद्रः कृपणश्चात्यन्तं क्षुद्रः क्षोदीयान्न तथा। ईश्वर उदारश्चेत्यर्थः / तथासिष्ठहर्षो गुरुतमानन्दः // औपच्छन्दसकापरान्तिका // - स्थूलयामि युवयामि शिशु क्षेपिष्ठमित्यहसिताशयवृत्तिः / क्षेपिमोपनतसत्पयसिष्ठत्वाभ्यदूरयमहं न हि पुत्रम् // 64 // १एम हि. 1 सी "त्मजमजी. २ए बुद्धिदी. सी बुद्धिरदी'. 3 बी वक्षेप. 4 सीनतट'. 5 बी सी स्वाति'. 6 ए ति द. ७बी "त्यर्थः.... Jain Education International For Private & Personal Use Only www.jainelibrary.org