________________
५५६
व्याश्रयमहाकाव्ये [ कुमारपालः] पुण्याहे । अन्न “अह्नः" [ ११६ ] इत्यद ॥ संख्याता संख्याताह । इत्यत्र "संख्यातादहश्च वा" [११७ ] इत्यट् । अहोहादेशो वा ॥
सर्वाङ्गशुभलग्ने स्वैर्युतो यहोत्सवैगृहम् ।
तयात्यह्वेन्दुमुख्या स पूर्वाह्नार्कप्रभोविशत् ॥ १३२ ॥ १३२. पूर्वाह्नॉर्कप्रभः प्रवर्धमानप्रतापोदय(यः) स भैमिः सर्वाह्नशुभलग्ने सर्वाह्ने सकलदिनमध्ये शुभं यल्लग्नं तत्र गृहमविशत् । कथम् । अत्यह्रोहरतिक्रान्तो रात्रौ भवो य इन्दुस्तद्वन्मुखं यस्यास्तया वध्वा सह । कीदृक्सन् । व्यह्नो द्वयोरहोर्भव उत्सवो येषां तैर्व्यह्रोत्सवैः स्वैः स्वजनैर्युत(तः)॥
सर्वाह्न ॥ अंश । पूर्वाह्न ॥ संख्या । ब्यह्न ॥ अयय । अत्यत । इत्यत्र "सर्वाश०" [ ११८ ] इत्यादिना-अट् । अहादेशश्च ॥
गते संख्यातरात्रेय वर्षारावान्महीपतिः। व्यसृजत्पुण्यरात्रार्धरात्रे श्वश्रू गुरुं च तम् ॥ १३३ ॥ १३३. भूपतिर्वर्षारात्रादर्वाक् पुण्यरात्रस्य नक्षत्रादिभिः पवित्राया रात्रेर्योर्धरात्रस्तस्मिन सन्मुहूर्त इत्यर्थः । श्वश्रू तं गुरुं च व्यसृजत् । क सति । संख्याता या रात्री रात्रिजातिस्तत्र संख्यातरात्रे गते कियतीष्वपि रात्रिष्वतिक्रान्तास्वित्यर्थः॥
१ सी °यापाढे. २ ए लाप.
१ सी ताह्नः सं. २ ए लार्कः प्रव'. ३ ए यलग्नं. ४ ए 'क्रान्तौ रा'. ५५ र्युता। स. ६सी व्ययं । अं. ७एत्रेयोध. ८सीन मुहू'. ९ सी त्रे कि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org