________________
[है०.७.३.११९.] एकोनविंशः सर्गः ।
५५७ कालेप्यदीर्घराजेन्तरेकरात्रद्विरात्रयोः ।
शक्त्यान्यानपि चक्रेरीनतिराजेन्दुनिष्प्रभान् ॥ १३४ ॥ १३४. भैमिरन्यानप्यान्नादितरानप्यरीनेकरात्रद्विरात्रयोरन्तरतिशीअमित्यर्थः । शक्त्या कृत्वातिरात्रो रात्रिमतिक्रान्तो दिवातनो य इन्दुस्तद्वन्निष्प्रभान्निस्तेजस्कांश्चक्रेभिषेण्य जिगायेत्यर्थः । क । न दीर्घरात्रा दीर्घा रात्रयोत्रादीर्घरात्रस्तस्मिन्कालेपि यात्रीया अयोग्य उष्णकाले वर्षाकालेपि चेत्यर्थः ॥
सर्वरात्रजागरूकः सन्द्विषां पुरुषायुषम् । आक्रामक्ष्मां स द्विस्तावात्रिस्तावे इव याज्ञिकः ॥ १३५ ॥ १३५. स भैमिः सर्वरात्रजागरूकः सदोद्यतोत एव द्विषां पुरुषायुषं पुरुषस्यायुर्वर्षशतं स्यंस्तद्वधेनान्तं नयन्सन्द्विषां श्मामाक्रामद्वशीचक्रे । यथा याज्ञिकः सर्वरात्रजागरूकस्तथाभिचारमन्त्रैर्द्विषां रात्रिंचराणां पुरुषायुषं स्यन् द्विस्तावात्रिस्तावे विकृतियागस्य वेदिविशेषावाक्रामत्यनेकयागक्रियाकरणैाप्नोति ।।
वह्नि द्विस्तावं त्रिस्तावमिव सश्वोवसीयसम् ।
श्वःश्रेयसार्थमार्चस्तमुच्चेशाद्या हयद्विपैः ॥ १३६ ॥ १३६. सह श्वोवसीयसेन कल्याणेनास्ति यस्तं सश्वोवसीयसं तं भैमि शोभनं श्रेयः श्वःश्रेयसं क्षेमं तदर्थमुच्चेशाद्या उच्चदेशाधिपाद्या नृपा हयद्विपैः कृत्वार्चन् । हयाश्च द्विपाश्च हयद्विपम् । हयद्विपं च १ सी त्रयोरतरतिशी. २ सी त्र. ३ ए रूकस्यौं. ४ सी °स्ताव ई.
१ ए क्याति . २ सी दीर्घरा'. ३ ए रात्रिस्त. ४ सी त्रायां अ. ५ सी ले चे'. ६ सी र्वत्र. ७ ए शिका स. ८ सी वशीय'. ९सी वशीय. १० एयः स्वश्रे. ११ ए त्वा कुर्वन्. १२ सी द्विपं चे'. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org