SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [कुमारपालः अथोद्रजःपूर्वसक्थोत्तरसक्थाय भूपतिः। रामो नु वानरशुनेदात्तस्मै पारितोषिकम् ॥ १२८ ॥ १२८. अथ भूपतिस्तस्मै पुंसे पारितोषिकं परितोषप्रयोजनं स्वर्णाद्यदात् । कीदृशाय । पूर्व सक्थि सक्ना(क्नः?) पूर्वभागो वा पू सक्थमेवमुत्तरसक्थं द्वन्द्वे उद्रजसी भूरिमार्गात्तदैवागतत्वादुद्धूलिते पूर्वसक्थोत्तरसक्थे यस्य तस्मै । यथा रामः सीताप्रवृत्तिं गृहीत्वा बहुमार्गागतत्वेनोद्रजःपूर्वसक्थोत्तरसक्थाय वानरशुने वानरः श्वेव बलिष्ठत्वाद्वानरश्वा हनूमांस्तस्मै पारितोषिकमदात् ॥ हसन्कुकुटसक्थे स मृगसक्थे विडम्बयन् । पुमान्फलकसक्थाभ्यां निर्ययौ जवनोरसम् ॥ १२९ ॥ १२९. जवनानां वेगवतामुर(रः) प्रधानं जवनोरसं वेगवत्सु श्रेष्ठः स पुमान्निर्ययौ राजभवनान्निर्गतः । कीहक्सन् । फलके इव फलके अमांसले अतिकठिने च ये सक्नी(क्थिनी) ऊरू ताभ्यां कृत्वा कुकुटसक्थे हसन्मृगसक्थे च विडम्बयनंनुकुर्वन्नित्यर्थः ॥ ग्रामतः । कौटतः । अन्न “ग्राम०" [ १०९ ] इत्यादिना-अद ॥ गोष्टश्वैः । अतिश्वैः । अत्र “गोष्ट." [ ११० ] इत्यादिना-अट् ॥ व्याघ्रश्वैः । अत्र "प्राणिनः०" [१११ ] इत्यादिना-अट् ॥ प्राणिन उपमा. नादिति पूर्वपदविज्ञानादिह न स्यात् । वानरशुने ॥ अनःश्वः । अत्र "अप्राणिनि' [ ११२ ] इत्यत् ॥ अप्राणिनीति किम् । वानरशुने ॥ १ सी क्थे च मृ. २ ए °यौ व. ४ ए अमास. १ सी °सक्थः द. २ सी रामसी'. ३ सी मुरु प्र. ५ ए नकु. ६ए क्षः । अन ग्रा. ७ए उमा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy