SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ [ है० ७.३.१०९.] एकोनविंशः सर्गः।। अकौवलिम(म?)हाब्रह्मा महाब्रह्मैश्वमूपतिः। यावन्निषेधेत्तावत्स कैश्चित्कुब्रह्मभिर्हतः ॥ १२६ ॥ १२६. तावत्स बल्लालः कैश्चित्कुब्रह्मभिः पापिष्ठब्राह्मणैर्हतो यावचमूपतिर्महाब्रह्मैव॒हद्भाह्मणैर्निषेधेन्मारणान्निवर्तयेत् । यतो महाब्रह्मा । एतदपि कुत इत्याह । यतोकौब्रह्मिः पापो ब्रह्मा कुब्रह्मो न तस्यापत्यम् ॥ अकौब्रह्मिः कुब्रह्ममिः । महाब्रह्मैः महाब्रह्मा । इत्यत्र “कुमहन्यां वा" [ १०८] इत्यड्वा ॥ ग्रामतः कौटतक्षैः स्यूतानःश्वस्ततोचलत् । सोगोष्ठश्चैरैतिश्चैर्यु व्याघ्रश्वैरिव लुब्धकः ॥ १२७ ॥ १२७. स चमूपतिस्ततो रणस्थानादचलत् । कीहक्सन् । अनांसि शंकटान्येवातिशीघ्रगत्वावान इवानःश्वाः । स्यूताः प्रगुणीकृता अनःश्वा यस्य सः । कैः । ग्रामतक्षामस्य तक्षभिर्घामसाधारणैस्तक्षभिस्तथा कुटी शाला स्त(त)स्यां भवाः कौटा ये तक्षाणस्ते कौटतक्षा ये स्वतत्रा न कस्याप्यायत्तास्तैश्च तथा गोष्ठे गोकुले श्वानो गोष्ठश्वा गोष्ठश्वा इव गोष्ठश्वा यथा गोष्ठश्वास्तथाविधशौर्याभावेनाएंकारिषु गोष्ठश्वा एव भवन्ति नान्यत्किंचित्कर्तुमलं तथा ये स्युस्त एवमुच्यन्ते । न तथा ये तैर्महाशूरैरित्यर्थः। अतिश्वैः श्वानमतिक्रान्तैः सुष्टु स्वामिभक्तैः सेवकैयुङ युक्तः । व्याघ्र इवातिशूराः श्वानो व्याघ्रश्वा जात्यकुर्कुरास्तैर्युङ् लुब्धको यथा स्यात् ।। १ सी ब्रह्मम'. २ ए रतैश्चैर्यङ्, १ सी यतःौत्र. २ ए शकायन्ये'. ३ एन वा. ४ सी इव श्वानः स्यू. ५ए कुलश्वा. ६ ए परि. ७ सीस्तैर्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy