SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ५५२ व्याश्रयमहाकाव्ये [कुमारपालः] इस्वत्वे त्रिखारेः । स्त्रीत्वमप्यन्ये । तन्मते पूर्ववद्रस्वत्वे "इतोक्त्यर्थात्" [२. ४. ३२ ] इति ङ्यां च त्रिखारी ॥ अर्धखार्यर्धखारेण भूत्वा खारीव ते स्वकैः । द्विनावव्यूहवन्तोर्धनावव्यूहं रिपुं व्यधुः ॥ १२४ ॥ १२४. ते नृपा रिपुं बल्लालं व्यधुः । किंभूतम् । नावोर्धमर्धनावं तद्वव्यूहः सैन्यरचना यस्य तं नावाकारस्य व्यूहस्य तत्सैन्यस्य संबन्धिनोर्धस्य हननेनार्धनावाकारव्यूहम् । किं कृत्वा । स्वकै टैः कृत्वा द्वयो वोः समाहारो द्विनावं तदाकारो यो व्यूहः सोस्त्येषां द्विनावव्यूहवन्तो भूत्वा । यथार्धखारि खार्या अर्धमर्धखारेण खार्या अर्धन खारी स्यात् ॥ अर्धखारेण । अर्धखारि । इत्यत्र “वार्धाच्च" [१०३ ] इति वा-अट् ॥ अर्धनाव ॥ द्विगोः । द्विनाव । इत्यत्र "नावः" [ १०४ ] इत्यद ॥ सोवन्तिपुंगवः पञ्चराज्या हतमहासखः । सेनान्यो गूर्जरब्रह्मस्यान्वक्षं पारितो गजात् ॥ १२५ ॥ १२५. स्पष्टः । किं तु स बल्लालोवन्तिपुङ्गवो मालवश्रेष्ठः पञ्चराज्या पञ्चानां राज्ञी संहत्या का पातितः । गूर्जरब्रह्मस्य गूर्जरेषु देशे ब्रह्मा गूर्जरैब्रह्मस्तस्य गूर्जरा(र)बावासिद्विजस्य सेनान्यः ।। पुंगवः । अत्र "गो:०” [ १०५ ] इत्यादिना-अ ॥ पञ्चराज्या । महासखः । अत्र "राजन्सखेः" [ १०६ ] इत्यः ॥ गूर्जरब्रह्मस्य । इत्यत्र “राष्ट्र०" [ १०७ ] इत्यादिना-अद ॥ १ ए वः पुंवरा . १ ए लाभं व्य. २ सी तब्बू. ३ सी °स्य सः तं. ४ सी त्वाद ५ सी न कृत्वारों. ६ ए राज्यां पं. ७ सी ज्ञां हां क. ८ ए त्या की. पा. ९ए रत्वावासिज्जम्य से'. १० सी °ट् । अकौ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy