________________
५५०
ब्याश्रयमहाकाव्ये
[कुमारपालः]
१२०. अथारिबल्लालो दण्डनायकं प्रपेदे प्राप्तः। किं कृत्वा।] तव शतराजीमाशु भित्त्वेतस्ततः क्षित्वा । किंभूताम् । महाबलत्वेन दृढव्यूहत्वेन च व्यहेपि दिनद्वयेपि दुर्भेदाम् । समिदृषदवत् । यथा समिधः काष्ठानि दृषदश्च दुर्भेदाः स्युः ।।
ऋक्सामे । ऋग्यजुपम् । धेन्वनडुह । वाङ्मनस । अहोरात्र । रात्रिंदिवम् । नक्तंदिवम् । अहर्दिवम् । ऊर्वष्ठीवे । पदष्ठीवे । अक्षिश्रुवे। दारगवाः । एते "ऋक्साम०" [ ९७ ] इत्यादिना निपात्याः ॥
चवर्ग । अस्थित्वच ॥ दें। समिदृषद॥ष । मांसास्रविषुषैः ॥ह । गोगोदुह । इत्यत्र "चवर्ग०" [ ९८ ] इत्यादिना-अत् ॥ शतराजीम् । ब्यहे । अत्र "द्विगोरॅनहोद" [ ९९ ] इत्यत् ॥ सेनानीः स्वांस्ततर्जाथ न्यायुषं व्यायुषं न वा । यञ्जलव्यञ्जलवाह या जीविताः स्थ किम् ॥ १२१ ॥
१२१. अथ सेनानीः स्वांस्ततर्ज । यथा द्वयोरञ्जल्योः समाहारो व्यञ्जलमेवं व्यञ्जलम् । द्वन्द्वे उपचारात्तत्परिमाणं यत्स्वर्णं तदह त्या दिवसे भृतिर्येषां ते हे व्यञ्जलव्यञ्जलस्वर्णाह त्या हे स्वर्णभृताञ्जलीनां द्वयं त्रयं वा जीविका दिने दिने लब्धारो न घ्यायुषं वर्तमानजनायुरपेक्षया न द्वे आयुषी स्तो न वा व्यायुषं न वा त्रीण्यायूंषि सन्त्यर्थाद्वस्तत्किं जीविताः स्थ जीवथ । अद्य श्वो वा मृत्युर्भाव्येव तस्मात्स्वजीवितनिरपेक्षं युध्यध्वमित्यर्थः ॥
१ एता । म. २ ए च याहे'. ३ सी ये दु. ४ सी अहर्दि'. ५ ए द । प । मां. ६ सी रनहो'. ७ ए°नानी स्वां तस्ततः । य. ८सी
रात्प. ९ए ते द्य. १० ए भृतीता. ११ सी यं वा. १२ सी 'वितास्थ जीविथ. १३ सी 'त्युभाव्ये. १४ ए भवेत. १५ एध्यमि',
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org