SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५४८ व्याश्रयमहाकाव्ये [कुमारपालः] सेनानीरधिशरदं शशीवाधितदं बभौ । व्याधो वोपशुनं निघ्नन्विनोपजरसं द्विषः ॥ ११३ ॥ ११३. सेनानीरुपजरसं जरायाः समीपं विना वर्तमानांस्तरुणानित्यर्थः । द्विषो निन्नन्सन्नधितदं तेषु स्वराजस्वाह्लादकत्वाद्वभौ । यथा शश्यधिशरदं शरत्काले भाति । यथा वा व्याध आखेटिक उपशुनं शुनां समीपे भाति ॥ तदास्त्राणामनुगवानोभिः पांशुस्तथोद्धतः । यथा सरजसं मृत्युमहोक्ष इव जनसे ॥ ११४ ॥ ११४. तदास्त्राणां सत्कैरनुगवानोभिर्गा() अन्वायतैः शकटैः कृत्वा पांशुस्तथोद्धत उच्छलितो यथा निबिडं रणोळ व्याप्तत्वान्मृत्युयमो महोक्ष इव सरजसं रजसा सकलं यथा स्यादेवं जग्रसेनेकसुभटादीनभक्षयत् ॥ नष्टाञ्जातोक्षद्धोक्षस्त्रीपुंसानिव मालवान् । न जनुस्तावकाः शुद्धक्षत्रस्त्रीपुंसजा भटाः ॥ ११५ ॥ ११५. स्पष्टः । किं तु जातोक्षस्तरुणवृषभः । स्त्री चासौ पुमांश्च स्त्रीपुंसो नपुंसकः । यथैते रणकातरत्वेन नश्यन्ति तथा नष्टान् । शुद्धक्षत्रस्त्रीपुंसजाः । शुद्धं ब्राह्मणत्वादिजात्यासंकीर्ण(ण) क्षत्रं राजवीजं यस्य तद्यत्स्त्रीपुंसं तस्माजाताः शुद्धक्षत्रिया इत्यर्थः । अधिशरदम् । अधितदम् । अत्र "शरदादेः" [ ९२ ] इत्यत् ॥ उपजरसम् । अत्र "जराया जरस् च" [ ९३ ] इत्यत् । जरसादेशश्च ॥ सरजसम् । उपशुनम् । अनुगव । इत्येते “सरजस०" [ ९४ ] इत्यादिना निपात्याः ॥ जातोक्ष । महोक्षः । वृद्धोक्ष । इत्यत्र "जात.” [ ९५] इत्यादिना-अत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy