SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ [ है ० ७.३.९१. ] एकोनविंशः सर्गः । उपनद्युपगिपर्य (गिर्य) न्तर्नदमन्तगि ( गिं ) रं गतान् । तेध्याग्रहायणीवोडूना (म्ल) नानाहन्स्वकान्भटान् ॥ ११० ॥ ११०. स्पष्टः । किं तु ते नृपाः । यथाध्याग्रहायणि मार्गशीष्यां हिमेन व्याप्तव्योमत्वेनोडवस्तारा म्लानाः स्युरेवं म्लानान् ॥ तेधियुत्प्रत्यसुहृदं प्रसतुः सोर्जगर्जिताः ॥ अध्याग्रहायणमुपपौर्णमासं यथान्धयः ॥ १११ ॥ १११. ते नृपा अधियुद्रणे प्रत्यसुहृदं शत्रूनाभिमुख्येन लक्ष्यीकृत्य प्रसस्रुः प्रसृताः । किंभूताः सन्तः । सोर्जा: सबला ये गर्जिताः कृतसिंहनादाः । यथाध्याग्रहायणं मार्गशीर्ष पूर्णिमायामुपपौर्णमासं पौर्णमास्याः समीपे च श्वेतचतुर्दश्यां कृष्णप्रतिपदि वेन्दोरुदितत्वेनाब्धयः सोज (र्ज ) गर्जिताः सन्तः प्रसरन्ति ॥ अन्वगाद्दण्डनेताधिपौर्णमासीन्दुरुक्स तान् । इदं पञ्चनदं सप्तगोदावरमिति ब्रुवन् ॥ ११२ ॥ ५४७ ११२. अधिपौर्णमासीन्दुरुग् रणाय भूभुजा (जां) व्यावर्तनेतिप्रमुदितत्वात्पूर्णिमाचन्द्रोज्ज्वल विकसितमुख ( ख ) स दण्डनेता तान्भूभुजोन्वगात् । कीदृक्सन् । उत्साहनाय ब्रुवन् । किमित्याह । इदं रणं स्वर्गहेतुत्वात्पञ्चनदसप्तगोदावरतीर्थयोस्तुल्यमिति ॥ 1 अन्तर्गिरम् । उपगिरि । अन्तर्नदम् । उपनदि । उपपौर्णमासम् । अधिपौर्णमासं (सि) । अध्याग्रहायणम् । अध्याग्रहायणि ॥ अपञ्चमवर्ग्य । प्रत्यसुहृदम् । अधियुत् । अन्न “गिरि ० " [ ९० ] इत्यादिना - अत् ( अद्वा ) ॥ पञ्चनदम् । सप्तगोदावरम् । अन्न "संख्यायाः ०" [९] इत्यादिना - अद्वा ( अतू ) ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy