SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ५४६ व्याश्रयमहाकाव्ये [ कुमारपालः ] संतमसे । अवतमस । अन्धतमसा । इत्यत्र " [सम]व० " [ ८० ] इत्यादिना-अत् ॥ अतप्तरहसाः । अनुरहसः । अवरहसम् । अत्र "तप्त०" [ ८१] आ ( इत्या)दिना-अत् ॥ प्रतिसामः । अनुसामः । अवसामेन । प्रतिलोमः । अनुलोमः । अवलोम । इत्यत्र " प्रत्यनु० " [ ८२ ] इत्यादिना अत् ॥ ब्रह्मवर्चसम् । [हस्तिवर्चसम् । राजवर्चसम् ।] पल्यवर्चसम् । अत्र "ब्रह्म" [ ८३ ] इत्यादिना अत् ॥ प्रत्युरसम् । अन्न “प्रतेर्०" [ ८४] इत्यादिना अत् ॥ गवाक्ष । इत्यत्र "अक्ष्णोप्राण्यङ्गे" [ ८५ ] इत्यत् ॥ अप्राणा ( ण्य ) ङ्ग इति किम् | [ उपाक्षि ] ॥ प्रत्यक्षं नः समक्षं च सैन्ये क्षुण्णे परोक्षवत् । कस्माद्रक्ष्यन्ति तेन्वक्षं कटाक्षैहस गर्भितैः ॥ १०८ ॥ १०८. स्पष्टः । किं त्वन्वक्षं सकललोकप्रत्यक्षम् ॥ समक्षम् | कटाक्षैः । इत्यत्र “स (सं) कटाभ्याम् " [ ८६ ] इत (त्य) त् ॥ प्रत्यक्षम् । परोक्षं (क्ष) । अन्वक्षम् । अत्र “प्रति०” [८७] इत्यादिना - अत् ॥ प्रतिराजं वदत्येवं सेनान्यां तेपि भूभुजः । अध्याजिकर्म निश्चिक्युः प्रतिवर्म कृतादराः ॥ १०९ ॥ १०९. स्पष्टः । किं तु प्रतिराजं नृपं नृपं प्रति । अध्याजिकर्म रणकर्मविषये । निश्चिक्युर्निश्चयं चक्रुः । प्रतिवर्म ( मैं ) सन्नाहं प्रति सन्नाहाभिमुख्येन लक्ष्यीकृत्य वा । ते नृपाः ॥ प्रतिराजम् । अत्र “अनः " [ ८८ ] इत्यत् ॥ अध्याजिकर्म । प्रतिवर्मम् । अत्र “नपुंसकाद्वा" [ ८९ ] इति वा अत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy