SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ [है०. ५.१.९९.] एकादशः सर्गः। ६१. एष जयसिंहः पूज्येषु भक्तिकरः संश्चित्रकर्याश्चर्यकारिण्या गुणश्रिया कृत्वा क्षपाकरविभाकरौ प्रीतावकार्षीत् । किंभूतौ । स्ववंशादिकरांवात्मीयवंशस्यादिकरावात्मीयप्रथमजन्मकर्तारौ । इलो नाम राजा सूर्यवंश्यः स च मृगयार्थमुमावनं प्रविष्टः सन्नुमाशापात्स्त्रीत्वं प्राप । सा च स्त्री बुधेन सोमवंश्येनोढा । ततो यावान्वंश उत्पन्नस्तावतः सर्वस्य द्वावपि सोमसूर्यावादिकरौ घटेते ॥ अन्तकरे कर्तृकरे क्षणदाकरशेखरे । अभूद्भलिकरो नान्दीकरः कारकरश्च सः ॥ ६२ ॥ ६२. स जयसिंहः क्षणदाकरशेखरे शंभौ विषयेभूत् । कीदृग् । बलिकरः पूजोपहारकारको नान्दीकरो द्वादशविधतूर्यवादक इत्यर्थः । कारकरश्च कारस्य नमस्कारादिक्रियायाः कर्ता च । कीदृशे । अन्तकरे जगत्संहारकारके तथा कर्तारं क्रियाकारकं पुरुषं करोति कर्तृकरस्तस्मिन् । ईश्वरेण हि कर्ता क्रियते । यदुक्तम् । अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ॥ इति । एतेनास्य जगत्सृष्टिरपि सूचिता । मृत्योर्लिपिकरः पत्रं तस्याकाण्डेप्युदक्षिपत् । यस्मिन्बाहुकरः सोभूदरुष्करधनुष्करः ॥ ६३ ॥ १ ए शेषरे. २ ए °कर का. १ ए र्यकरि०. २ ए °रादात्मी. ३ बी स्यादिः प्र. ४ ए करप्र. ५ सी रादात्मी०. ६ ए श्येवोढा. ७ ए °करो घ. ८ ए शेषरे. ९ ए कर पू. १० ए का च. ११ ए व... ति ॥. डी व च ॥ इ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy