________________
५२६
व्याश्रयमहाकाव्ये [कुमारपालः] लोहितको मणिपटौ । अत्र “लोहितान्मणौ” [१७] इति कः ॥ लिङ्गविशिष्टस्यापि ग्रहणाल्लोहिनिका मणी ॥
रक्त । लोहितको मणिपटौ ॥ अनित्यवर्णे । क्रुधा लोहिनिका दृक् । अत्र "रक्त०" [१८] इत्यादिना कः ॥
स्वार्थे रक्ते । कालकांशुक । अनित्यवर्णे । वैलक्ष्येण कालकं मुखम् । अत्र "कालात्" [ १९ ] इति स्वार्थे कः ॥
रोमप्रावरणं वोढा शीतके नूष्णकेप्य॒तौ । विहानकालूनकाङ्गवियातकपशुव॑यम् ॥ ७१ ॥ ७१. अयमनुवरो यथा शीर्तक ऋतौ शीतकाले रोमप्रावरणं शीतत्राणाय वहति तथोष्णकेप्यतावुष्णकालेपि रोमाण्यङ्गलोमान्येवातिसान्द्रत्वेनाङ्गाच्छादकत्वात्प्रावरणमाच्छादनं तद्वोढा वहति । विगतं हानं गमनं यस्य स विहानः स एव विहानकस्तथा लून एव लूनको लूनरोमा पशुर्न तथालूनक: सरोमा पशुस्तस्येवाङ्गमस्यालूनकाङ्गो लोमशाङ्गस्तथा वियात एव वियातकश्च धृष्टो यः पशुरुरणः स यथा रोमाण्येव प्रावरणं शीतके नूष्णकेप्य॒तौ वहति । रोमशत्वादेवमुपहासः ॥ शीतके । उष्णक ऋतौ । अत्र “शीत." [२०] इत्यादिना स्वार्थे कः ॥
अलूनक । वियातक । इत्यत्र “लून०" [२१] इत्यादिना स्वार्थे कः ॥ विहानशब्दादपीच्छन्त्येके । विहानक ॥
१बी णं बोढा.
१ सी हितिका. २ बी रक्त । लो'. सी रक्तौ । लो'. ३ ए हितिका. ४ ए स्वार्थो र'. ५ ए °शुका। अ. ६ सीतकोले. ७ ए वणं. ८ सी °शुस्त. ९ ए ङ्गो लाम. १० बी मसाङ्ग. ११ बी शुरूर'. सी 'शुरूरुणः. १२ बी मसत्वा'. १३ बी नकः । वि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org