________________
५१८
व्याश्रयमहाकाव्ये
[कुमारपालः]
यस्य स पुरोमृत्स्नः संस्तद्गृहं गुरुगृहमाश्वगात् । कीदृशम् । माङ्गल्याय समृत्सानि प्रशस्तमृत्तिकान्वितानि यानि मृत्तिकापात्राणि शरावास्तत्रोद्यन्त उद्गच्छन्तो यवा यत्र तत् । कीदृग्नृपः । कान्ते रूपादिश्रिय औपयिकमुपायः कारणं या मृद्रूपा प्रशस्ता मृत्तस्या भवति स्मोत्पद्यते स्म यः सः । कान्तिहेत्वत्युत्कृष्टपरमाणुभिनिष्पन्न इत्यर्थः ।।
औपयिक । इत्यत्र "उपायाद्रस्वश्च" [ १७० ] इतीकण हूस्वश्च ॥ मृत्तिका । इत्यत्र "मृदस्तिकः" [ १७१ ] इति [ति]कः ॥ समृत्स। पुरोमत्स्नः । अत्र “सत्रौ प्रशस्ते" [ १७२ ] इति सत्रौ ॥ केचित्तु रूपमपीच्छन्ति । मृद्रूपा ॥
षड्विंशः पादः ॥ तिलकं मङ्गलमये राज्ञो दधिमयं व्यधुः । अग(गा)णिक्याः स्त्रियो द्वारि महेत्रागणिकामये॥५६॥
५६. न गणिकाः प्रकृता स्विंगाणिक्याः खियः कुलाङ्गना दधि प्रकृतं दधिमयं दधिस्वरूपं तिलकं व्यधुः । कस्य । मङ्गलमये प्रकृतमौक्तिकस्वस्तिकादिमङ्गलकर्मणि द्वारि गृहद्वारदेशे वर्तमानस्य राज्ञो भैमेः । क । अत्र महे विवाहोत्सवे । किंभूते । गणिकाः प्रकृता गीतगानमाङ्गलिक्यकरणादौ प्राचुर्येण प्राधान्येन वा कृता अत्र गणिकामयो न तथा तस्मिन्कुलाङ्गनाप्रस्तुतोद्वाहविधावित्यर्थः॥
१ ए °स्य पु. २ सी म् । मङ्ग'. ३ बी सी मृत्स्नानि. ४ बीणि शाखास्त. ५ बी औपायि'. ६ बी औपायि'. ७ बी सी मृत्ल । अं. ८ बी सी पम. ९ वी आश्वगा. १० ए सी स्वगणि'. ११ बी घिरू. १२ बी कर्माणि. १३ सी हदे'. १४ सी "स्य भैं. १५ ए °त्र हे. १६ सी प्रशस्तोद्वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org