________________
५१७
[है० ७.२.१७०.] एकोनविंशः सर्गः।
शंसन्कार्मणमानीयसवैनयिकवाचिकैः।
तं सांप्रदानिकायाद्गुरुः संजीवनौषधम् ॥ ५४॥ ५४. गुरुरानपुरोहितः संजीवनौषधं संजीव्यतेनेन संजीवनं यदौषधं तत्तुल्यं चौराद्यन्यायिगदेभ्यः सकलजगतो रक्षकमित्यर्थः । तं भैमिमाह्वदाकारयत् । किमर्थम् । सांप्रदानिकाय कन्यासंप्रदानार्थम् । कीहक्सन् । आन्नीयान्यान्नसंबन्धीनि सवैनयिकानि सविनयानि यानि वाचिकानि कन्याविवाहादिविषयाः संदिष्टा वाचस्तैः कृत्वा कार्मणं विवाहादिक्रियालक्षणं संदिष्टं कर्म शंसन् । सविनयमान्नेन संदिष्टमेतद्यदधुना कन्याया विवाहः प्रसद्य कार्य इति वदन्नित्यर्थः ॥
भैषज्यम् । आवसथ्यम् । अत्र "भेषजादिभ्यष्टयण्" [ १६४ ] इति व्यण् ॥ प्राज्ञः । दैवत । इत्यत्र "प्रज्ञादिभ्योण्" [ १६५ ] इत्यण ॥ श्रौत्रः । औषधम् । कार्ण । इत्यत्र "श्रोत्र." [ १६६ ] इत्यादिनाण् ॥ कार्मणम् । अत्र “कर्मणः संदिष्टे" [ १६७ ] इत्यण् ॥ वाचिकैः । अत्र “वाच इकण्" [ १६८ ] इतीकण् ॥ वैनयिक । सांप्रदानिकाय । इत्यत्र “विनयादिभ्यः" [ १६९ ] इतीकण् ॥
कान्त्यौपयिकमृद्रूपाभूः पुरोमृत्ल आश्वगात् ।
समेत्समृत्तिकापात्रोद्यद्य तगृहं नृपः ॥ ५५ ॥ ५५. नृपो भैमिः पुरोग्रतो मृत्स्ना प्रशस्ता मृच्छुभशकुनभूता १ए शंकन्कर्म'. २ सी गुरुरान. ३ बी रुः सज्जीव. ४ बी पाभू पु. ५ बी मृत्स्नमृ.
१ सी दाका. २ बी आतीयान्नान्न. ३ ए न्धीन् स. ४ सी हावि . ५ ए में संशन्. ६ ए सह्य का. ७ ए ण् । श्रोत्र । औं'. ८ ए काष्र्ण्य । ई. ९ सी वाचि इ. १० ए दायिका. ११ सी मृत्मातिप्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org