SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः। ५१९ त्यक्त्वापूपमयं मौदकिकं च धवलान्दधुः। तत्रागायनपाशाश्च स्त्रीतमा विलसत्तमाः ॥ ५७ ॥ ५७. स्पष्टः । किं त्वपूपमयं मौदकिकं च त्यक्त्वापूपान्मोदकांश्च प्रकृतान्मुक्त्वा ॥ सूक्ष्मवस्त्रतमः श्रेष्ठतमथुलुकजन्मनाम् । ययौ गौरतमः सोन्तर्भित्वा लवणसंपुटम् ॥ ५८ ॥ ५८. स्पष्टः । किं त्वतिशयेनै सूक्ष्माणि वस्त्राण्यस्य सूक्ष्मवत्रतमः । लवणसंपुटं लवणाग्निगर्भ शरावसंपुटम् ॥ दधिमयम् । अत्र "प्रकृते मयद" [१] इति मयट् ॥ मङ्गलमये द्वारि । इत्यत्र "अस्मिन्' [ २ ] इति मय: ॥ मौदकिकम् । अपूपमयम् । अगाणिक्याः । अगणिकामये । अत्र "तयोः०" [३] इत्यादिना समूहवत्प्रत्ययाः स्युरिति "कवचि०" [ ६. २. १४ ] इत्यादिनेकण् । “गणिकाया ण्यः" [६.२.१७] इति ण्यः । चकारान्मय च ॥ अगायनपाशाः । अत्र “निन्ये पाश" [ ४ ] इति पाशप् ॥ गौरतमः । विलसत्तमाः । अत्र "प्रकृष्टे तमप्" [५] इति तमप् ॥ जातिद्रव्यवचनेभ्योपि गुणक्रियाप्रकर्षविवक्षया स्यात् । स्त्रियोमूर्या अप्रूपपाकादिस्त्रीकार्य सुश्लिष्टाः कुर्वन्ति । स्त्रीतमा एता याः सुलक्षणा अप्रूपपाकादि गीतगानादि च स्वीकार्य कुर्वन्ति । द्रव्यान्तरसमवायिना च प्रकृष्टेन गुणेन प्रकृष्टे द्रव्ये तद्वतः प्रत्ययः स्यात् । सूक्ष्मवस्त्रतमः । प्रकर्षप्रत्ययान्ताच्च प्रकर्षस्यापि प्रकर्षविवक्षायां प्रत्ययः स्यात् । श्रेष्ठतमथुलुकजन्मनाम् ॥ १बी न्ददुः । त. १ ए बी यं मोद. २ बी पूपोमोद'. ३ वी °न शूक्ष्मा . ४ बी तेमंय. . ५ बी ट् । सोद. ६ ए नामस'. ७ सी प्रक्रियावि. ८ ए पूपा. बी पूपंका. ९ बी पूपा. १० ए°टे द्र. ११ सी पवि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy