________________
[ है ० ७.२.१२९. ]
एकोनविंशः सर्गः ।
५०५
२८. स्पष्टः । किं तु सर्पीकृत्यादति भटान् सर्पषीवे सुखेन भटासंहरमाण इत्यर्थः । संबन्धो विवाहेन स्वजनसंबन्ध: । अत्रान्नविषये । धनूभवति चापीभूत इत्यर्थः । गुणो ज्या । यथा धनूभूतो वंशो गुणारोपयोग्यस्तथैव विक्रान्त आन्नोपि संबन्धयोग्य इत्यर्थः ॥ आन एवेदृशो नान्यः कश्चिद्भवितुमर्हति । सर्पिर्भवति किं तैलं धनुर्भवति किं नडम् ॥ २९ ॥
२९. स्पष्टः । किं त्वीदृशो विक्रान्तत्वादिगुणोपेत आन्न एव भवि - तुमर्हति नान्यः कश्चित् । नडं तृणभेदः ॥
सर्पकृत्यं । धनूभवति । इत्यत्र "इसुसोर्बहुलम् " [ १२८ ] इति च्वावन्तस्य बहुलं लुप् । न च स्यात् । सर्पिर्भवति । धनुर्भवति ॥
I
यथार्को पदीभूतं कुर्यादुदकसाद्धिमम् ।
आन्नभक्तिर्हषद्भूतमस्मदीयं मनस्तथा ॥ ३० ॥
३०. यथा रविर्हिमं दृपदीभूतं शीतेन पाषाणतुल्यीभूतं सदुदकसात्कुर्यात्सर्वमप्युदकीकरोति तथान्नभक्तिरस्मदीयं मनो दृषद्भूतं कोपात्कठोरीभूतं सदुदकसात्कुर्यादार्द्रीकरोति प्रसन्नं करोतीत्यर्थः ॥
आनो भक्त्यानया मित्रसात्स्यात्संबन्धिसाद्भवेत् ।
सर्वोप्येवं सखिसात्स्यात्संपद्येत च बन्धुसात् ॥ ३१ ॥
३१. स्पष्टः । किं तु मित्रसात्स्यान्मित्रीभवेत् । संबन्धिसाद्भवेत्संबन्धीभवेत् । एवं भक्त्या कृत्वा ॥
१ द्येति च .
१ सीत्यादिति. २ सी 'वतेत्यत्र जाते संपदा च इति स्सात्. ( ३३ श्लोको चैवं द्रष्टव्यः ). ३ बी 'माणेत्य ४ ए ये । धेनू ५ए था धेनू. ६ ए विक्रीत आ. ७ । नू. ८ बी सुमोबाहु . ९ एवेत् । ए.
૬૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org