SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५०६ व्याश्रयमहाकाव्ये [कुमारपालः ] भक्त्यानस्य प्रसादो नः सुघटोनन्यसात्कृतः। वर्षासु कोम्बुसात्कुर्याल्लवणं हि स्वयं भवेत् ॥ ३२ ॥ ३२. नोस्माकं प्रसाद आनस्य भक्त्या का सुंघटः सुखेन घट्यते क्रियते सुघटः । यत औन्नभक्त्यानन्यसात्कृतो नान्यत्राधीनः कृत आन्न एवार्यत्तीकृतः । युक्तं चैतत् । हि यस्माद्वर्षासु लवणं कोम्बुसाकुर्यादुदुकीकुर्यात्किं तु स्वयमेव लवणमम्बुसाद्भवेत् ॥ संबन्धो गुरुसात्संपद्येताथो मातृसाद्भवेत् । आत्मसात्केवलो न स्यात्तद्युक्तं तौ न्ययुक्त सः॥ ३३ ॥ ३३. तत्तस्माद्धेतोः स आन्नस्तौ मातृगुरू युक्तं न्ययुक्त विवाहसंबन्धाय व्यापारयत् । यस्मात्संबन्धो विवाहसंबन्धो गुरुसात्संपद्येत पुरोहितेधीनो भवेत्तथा मातृसाद्भवेन्मातर्यधीनः स्यात् । आत्मसादात्मन्यायत्तः केवलोयं न स्यात् ।। दृषदीभूतम् । अत्र "व्यञ्जनस्यान्त ई(ई:)" [ १२९ ] इति व्वौ-ई (ईः)। न च स्यात् । दृषद्भूतम् ॥ उदकसाकुर्यात् । संबन्धिसाद्भवेत् । मित्रसात्स्यात् । अत्र "व्याप्तौ स्सात्" [ १३० ] इति स्सात् ॥ वर्षासु लवणमम्बुसात्कुर्यात् । अम्बुसाद्भवेत् । सर्वोपि सखिसात्स्यात् । बन्धु. सासंपद्येत । इत्यत्र "जातेः संपदा च" [ १३१ ] इति स्सात् ॥ अनन्यसात्कृतः । मातृसाद्भवेत् । आत्मसात्स्यात् । गुरुसासंपद्येत । इत्यन्न "तत्राधीने" [ १३२] इति स्सात् ॥ १ ए सुघंटः. २ ए ‘ते । य'. ३ बी आन्नः भ. ४ बी ययत्ती. ५ बी र्या उद. ६ बी पद्यते पुरोहिताधी. ७ बी ति च्वौः ई । न चः स्या. ८ एत्र ज्ञाते । सं. ९ ए सी पयत. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy