________________
[है० ७.२.१३.] अष्टादशः सर्गः।
४६५ व्रीह्यर्थ । अशालिलम् । अशालिकः। शाली । शालिमन्तम् ॥ तुन्दादि । अतुन्दिलः। अतुन्दिकम् । तुन्दी । तुन्दवन्तम् ॥ पङ्किल । पङ्किक । पङ्किनीम् । पङ्कवत् । इत्यत्र "ब्रीह्यर्थ०" [९] इत्यादिना-इलः। चकारादिकेनौ। “आयात्" [२] इति मतुश्च ॥ व्रीहिशब्दोपि व्रीह्यर्थों भवति । किं तु तस्य पूर्वत्रोपादानादिलो न स्यात् । भावे हि तत्रोपादानेमनर्थकं स्यात् ॥ भवतीत्येके । व्रीहिल ॥
पादिलान् । पादिक । पादिभिः । अत्र "स्वाङ्गाद" [१०] इत्यादिनाइल-इक-इनः॥ वृन्दारकैः । अवृन्दवन्तः। अत्र “वृन्दादारकः" [११] इत्यारको मतुश्च ॥
शृङ्गारक। शृङ्गवन्तः। अत्र "शृङ्गात्" [१२] इत्यारको मतुश्च ॥ उपजातिः॥ फलिनद्रुमर्हवदातपत्रकाः फलवच्छरश्रेणिमुचोपि जाङ्गलाः । अथ गूर्जरैबर्हिणवन्महाहयः प्रबभञ्जिरे सृङ्गिणवच शाखिनः ७१
७१. अथ गूर्जरैर्जाङ्गला आन्नभटाः प्रबभञ्जिरे। कीदृशाः । फलिनद्रुमन्ति सश्रीकत्वात्सफलट्ठमा इवाचरन्ति बर्हवन्ति मायूरपिच्छयुक्तान्यातपत्राणि येषां तेपि ठकुरा अपि । तथा फलवती प्रशस्य शस्त्रा. ग्रभागान्विता या शरश्रेणिस्तां मुञ्चन्ति ये तेपि यथा बहिणैर्मयूरैर्महायो भज्यन्ते । यथा च शूङ्गिणैर्वनमहिषैः शाखिनो वृक्षा भज्यन्ते ॥
फलिन । फलेवत् । बर्हिण । 'बर्हवत् । शृङ्गिण । इत्यत्र "फल०" [१३] इत्यादिना-इनो मतुश्च ॥ सुदैन्तं छन्दः ॥ १एरैवहिं . २ बी प्रभ.
१ ए बी ह्यर्थः । अं. २ बी लिनम्. ३ ए °न्दिलं । अ. सी °न्दिल । अ. ४ ए अॅपि भ. ५ सी नर्थ. ६ सी दिकः । पा. ७ बी अत्रवृन्द'. ८ वी रकः । . ९ ए °त्वाशर्फ. १० सी °क्तान्येव पात्रा'. ११ सी स्यवस्त्रा'. १२ सी °था शृ. १३ ए नर्महिषौ शा. १४ ए वतत्. १५ बी बर्हिव. १६ ए श्च । मुद'. १७ सी दतं छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org