________________
याश्रयमहाकाव्ये [कुमारपालः] ६८. कापि च रणप्रदेशेतुन्दिलोस्थूलोदरस्तुन्दवन्तं जिगाय। कापि च तुन्द्यतुन्दिकं जिगाय । यथा स्थानं ग्रामादिस्तदस्यास्ति स्थानी ग्रामठकुरादिस्तद्वशेनाशालिलं शालिरहितं दरिद्रं शालीश्वरो जयति । अथाथ वा यद्वदशालिको दरिद्रोपि शालिमन्तमिति ॥ उपेन्द्रवज्रा ॥ पङ्किलबीहिलक्षेत्रवान्महीं शोणितैः पङ्किनी पङ्कवन्मूर्तयः । पङ्किकक्ष्मातलस्रंसिनः पादिलान्संत्यजन्तो मयांश्चक्रमुः पत्तयः ६९
६९. पङ्कवती श्रमोत्थस्वेदसैन्यरजःसंपर्केण कर्दमवती मूर्तियेषां ते तथा पत्तयः स्फारका युन्महीं रणोर्वी चक्रमुर्गताः । किंभूताम् । शोणितैः पङ्किनीमत एव पकिलबीहिलक्षेत्रवत्पङ्कयुक्तंव्रीहियुक्तक्षेत्रतुल्याम् । किंभूताः सन्तः । मयानुष्टुभेदान्संत्यजन्तः। किंभूतान । पङ्किकं शोणितकर्दमयुक्तं यक्ष्मातलं तत्र संसिनः स्खलनेनाधःपातुकान् । एतदपि कुत इत्याह । यतोतिवृद्धा महान्तः पादाः सन्त्येषां पादिलास्तान् ।। स्रग्विणी ॥ यथैव शृङ्गारकपादिभिरिमृगैर्मृगाः पादिकशृङ्गवन्तः । वृन्दारकैस्तद्वदन्दवन्तो भटैर्भटा युद्धकृतोत्र दृष्टाः ॥ ७० ॥
७०. तद्वत्तथा वृन्दारकैः समूहवद्भिर्भटैः सहावृन्दवन्त एकौकिनो भटा युद्धकृतो युध्यमाना अत्र रणे दृष्टाः । यथैव शृङ्गारकपादिभिः शृङ्गवद्भिर्विवृद्धपादवद्भिश्च मृगैरारण्यपशुभिः सह पादिकशृङ्गवन्तो मृगा युध्यमाना दृश्यन्ते ॥
१ ए तिनी प. २ बी क्रतुः प. ___ १ बी शेन शालिनं शालिर. २ सी लिर'. ३ सी रो गाय'. ४ ए थावथाय. ५ बी क्रतुर्ग'. ६ बी क्षेव. ७ सी क्तक्षे. ८ सी तुल्याः । किं. ९ एलान्. १० सी कादिनो भट यु. ११ ए युद्धमा . १२ सी झारिक. १३ ए “दिभिशृंगारव'. १४ सी भिः शृंगारव. १५ बी सी द्भिर्वृद्ध .
५३१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org