________________
[है० ७.२.९.]
अष्टादशः सर्गः ।
६७. खलाः सन्त्यस्यां खलिनी समितो युद्धस्य खलिनीव समित्खलिनी तस्यां यथा खलिनी धान्यखलाधार एवं संग्रामाधार इत्यर्थः । भुवि रणाङ्गणे कोपि भटोशै(शी?)र्षिकः शीर्षरहितोप्यशीषिणं शीर्षरहितमकरोदर्थात्प्रत्यर्थिनम् । यतः प्रत्यर्थिकीत्यर्थी शत्रुकीर्ति जिघृक्षुरित्यर्थः । ततश्चाशीर्षवाञ् शीर्षरहितः सोपि प्रत्यर्थ्यपि खड्गभृत्सन्ननर्त वीर्यातिशयायुद्धाय ववलग । अत एव प्रत्यर्थिकैः शत्रुभिरर्थिकंवद्याचकैरिव परिष्टुतः ॥
छत्रिकैः । छत्रिणः । छत्रवान् । इत्यत्र "अतः०" [६] इत्यादिना-इकेनौ मतुश्च ॥ अनेकस्वरादिति किम् । स्ववद्भिः ॥ अभिधानार्थस्येतिकरणस्यानुवृत्तेः कृदन्तान्न भवतः। भृत्यवद्भिः ॥ क्वचिद्भवतः । कार्यिकैः । कार्यिणः ॥ जातिशब्देभ्यो न भवतः । माल्यवान् । क्वचिद्भवतः । का(क)पंटिकाः । कर्पटी ॥धनादुत्तमणे भवतः । धनिकः(क)। धनिनः ॥ सप्तम्यर्थे च न भवतः । वीरवत्याहवे ॥ क्वचिद्भवतः। खलिन्याम् ॥ रसरूपगन्धस्पर्शशब्दस्नेहेभ्यो गुणवाचिभ्यो न भवतः ॥ क्वचिद्भवतः । रसिकैः । रसिनः ॥
अशीर्षिकः । अशीर्षिणम् । अंशीर्षवान् । इत्यत्र “अशिरसोशीर्षश्च" [७] इतीकेनौ मतुश्चाशिरसोशीर्षादेशः ॥ अर्थिकवत् । अर्थी । प्रत्यर्थिकैः । प्रत्यर्थि । इत्यत्र “अर्थ." [ ८ ] इत्यादिना-इकेनौ ॥ वंशस्थेन्द्रवंशयोरुपजातिः॥ अतुन्दिलः कापि च तुन्दवन्तमतुन्दिकं कापि जिगाय तुन्दी । अशालिलं शाल्यथ शालिमन्तमशालिकः स्थानिवशेन यद्वत्॥६८॥
१ ए °ल्यपि शा २ सी स्थानव. ३ सीत् । कोपि.
१ सी नी तस्यां खलिनी यथा धा. २ ए नी धन्य. ३ ए सी कीत्ति जि. ४ सी एवा प्र. ५ ए कविद्या'. ६ सी रस्या. ७ सी कार्यकैः. ८ ए काः । कार्पटीः । ध. ९ बी पिणार. १० एशीपिका. ११ ए वशोर'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org